OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, March 27, 2025

 मुण्टक्कै - चूरल्मला पुनरधिवासाभियोजना

मुख्यमन्त्रिणा अद्य शिलान्यासः। 

नूतननगरनिर्माणे वासगृहाणां रूपरेखा 

कल्पट्टा> केरले वयनाट्जनपदे गतवर्षे दुरापन्नेन भूस्खलनेन बन्धुजन-वासस्थानादिकं सर्वं विनष्टानां पुनरधिवासाय प्रशासनेन निर्मीय प्रदीयमानायाः अभियोजनायाः शिलान्यासं अद्य मुख्यमन्त्री पिणरायि विजयः निर्वक्ष्यति। वयनाटस्थे कल्पट्टाप्रदेशे 'एल्सण् एस्टेट्' इत्यत्र ६४ हेक्टर् मिते स्थाने अस्ति नूतनभवनसञ्चयस्य निर्माणम्। 

  पुनरधिवासाभियोजनायां वासगृहाणि, स्वास्थ्यनिलयः, सामाजिकविपणी, आधुनिकी अङ्गनवाटी इत्यादीनि कल्पितानि। दुरन्तातिजीवितेषु प्रतिपरिवाराय सप्त सेन्ट्मिते स्थाने सहस्रचतुरश्रपादमितानां गृहाणां  निर्माणमेव करिष्यति।