OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, March 26, 2025

 मार् बसेलियोस् जोसफ् बावा वर्यः 'श्रेष्ठकातोलिका' पदे अभिषिक्तः। 

श्रेष्ठ कातोलिकापदे अभिषिक्तः बसेलियोस् जोसफ् बावावर्यः पदचिह्नैः सह।

बय्रूट्> क्रिस्तीयधर्मस्य याकोबाया सुरियानि ओर्तडोक्स् सभायाः उन्नतपौरोहित्यपीठे 'श्रेष्ठकातोलिका'नामके भारतीयः मार् बसेलियोस् जोसफ् बावा वर्यः अभिषिक्तः। लबननराष्ट्रे बय्रूट् नगरस्थे अट्चाने सेन्ट् मेरीस् देवालये सम्पन्ने स्थानारोहणकार्यक्रमे सुरियानिसभायाः परमाध्यक्षः इग्नातियोस् अप्रें  द्वितीयः पार्त्रियार्कीस् बावावर्यः मुख्यकार्मिकः अभवत्। 

   कुजवासरे सायं पञ्चवादने [भारतीयसमयः रात्रौ ८. ३०] आसन् अभिषेकानुष्ठानानि। पञ्चवर्षदशकैः मेत्रापोलीत्ता, कातोलिकाादि पदमूढ्य सभां नीतवतः दिवंगतस्य  श्रेष्ठकातोलिका बसेलियोस् तोमस् प्रथमबावावर्यस्य अनुगामिरूपेणैव केरलजन्मनः अस्य नूतनं स्थानारोहणम्।