OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, March 29, 2025

 म्यान्मर-तायलान्ट्राष्ट्रयोः भूकम्पः - २००+ मरणानि। 

चीन-भारत-वियट्नाम-बङ्गलादेशराष्ट्रेषु च प्रकम्पनानि। 

भूकम्पे भग्नस्य बहुस्तरभवनस्य अवशिष्टे रक्षाप्रवर्तनं क्रियते। 

नय्पिडो/बाङ्कोक्> म्यान्मरदेशस्य मध्यभागे तायलान्ट् राष्ट्रे च महानाशकारणकः भूकम्पः अजायत। भूकम्पमापिन्यां ७. ७ तीव्रतामङ्किते भूकम्पे म्यान्मरे केवलं १५० जनाः मृताः। उपसहस्रं जनाः क्षताश्च। बहूनि बहुस्तरभवनानि भग्नानि। बहवः भग्नेषु  भवनावशिष्टान्तर्भागेषु लग्नाः इति सूच्यते।

  म्यान्मरे एवाधिकानि मरणानि दुरापन्नानि। ताय्लान्टे पञ्च जनानां मृत्युः स्थिरीकृतः। द्वयोरपि स्थानयोः मृत्युसंख्या वर्धिष्यते इति निगम्यते। सहस्राधिकाः जनाः म्यान्मरे मृत्युं गताः स्युरिति अमेरिकायाः भूगर्भशास्त्रज्ञैः निगदितम्। 

 शुक्रवासरे प्रादेशिकसमयानुसारं १२. ५० प्रथमं भूचलनमनुभूतम्। ततः ६ अनुक्रमचलनानि जातानि। चीनं, भारतं, वियट्नामः, बङ्गलादेशः राष्ट्रेष्वपि प्रकम्पनानि अनुभूतानि। किन्तु जनापायः नाशः वा न वृत्तान्तीकृतः।