OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, March 25, 2025

 राजीव चन्द्रशेखरः केरलस्य भाजपा अध्यक्षः। 


अनन्तपुरी> केरलराज्ये भा ज पा दलस्य  अध्यक्षरूपेण भूतपूर्वः केन्द्रसहमन्त्री राजीव चन्द्रशेखरः चितः। ह्यः आयोजिते राज्यसमित्युपवेशने तस्य नाम केन्द्रनेतृत्वेन प्रख्यापितं , समित्या ऐककण्ठ्येनाङ्गीकृतं च। 

 के सुरेन्द्रस्य अनुगामिरूपेण राजीव चन्द्रशेखरेण केरल भाजपा नेतव्या इति पूर्णतया  केन्द्रनेतृत्वस्य निर्णयः अस्ति।  रविवासरे  अनन्तपुर्यां सम्पन्ने राजनैतिकदलस्य निर्वाहकसमित्युपवेशने केरलस्य प्रभारिः प्रकाश जावदेकरः नेतृत्वस्य निश्चये अङ्गीकारं सम्प्राप्य राजीवस्य  पत्रिकासमर्पणादिप्रक्रमाः सम्पन्नाः।  तदनन्तरं सोमवासरे राज्यसमित्यां एषः निर्णयः समर्पितः अङ्गीकृतः च। ततः केन्द्रमन्त्री प्रह्लाद जोषेः इतपेषां नेतृजनानां सान्निध्ये नूतनराज्याध्यक्षरूपेण राजीव चन्द्रशेखरः चितः इति प्रख्यापोSपि विधत्तः।