OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, March 12, 2025

 आट्टुकाल् "पोङ्काला" [अन्ननैवेद्यं] श्वः। 

राजधानीनगरी सर्वसिद्धा।

पोङ्कालयज्ञार्थं सम्मिलिताः महिलाभक्ताः। 

अनन्तपुरी> केरले प्रसिद्धेषु भक्तजनसंगमेषु अन्यतमः 'आट्टुकाल् पोङ्काला' नामकः भक्तस्त्रीणां महासंगमः ताभिः क्रियमाणं अन्ननैवेद्यं च मार्च् १३ तमे दिनाङ्के अनन्तपुरीनगर्यां समीपप्रदेशेषु च सम्पत्स्यते। महिलानां शबरिगिरिः इति अनन्तपुरीनगरस्थस्य आट्टुकाल् देवीमन्दिरस्य प्रशस्ति‌ः। 

  दशसहस्रशः जनाः विशिष्य महिलाः अन्ननैवेद्यसमर्पणाय दिनेभ्यः पूर्वमेव अन्नपाकसामग्रीसहितं  मन्दिरपरिसरेषु सम्मिल्य प्रार्थनामनस्काः सत्यः प्रतीक्षां कुर्वन्त्यः सन्ति। 

  श्वः [गुरुवासरे] प्रभाते १०. १५ वादने मन्दिरस्य पुरतः वर्तमाने मुख्यचुल्लीं अर्चकेण अग्निः प्रसारयिष्यते। ततः दशसहस्रेषु चुल्लीषु अग्निं प्रसार्य तण्डुलगुडादिभिः पायसं पाकं कृत्वा अपराह्ने १. १५ वादने नैवेद्यसमर्पणं सम्पत्स्यते। केरलस्य नानाप्रदेशेभ्यः राज्यान्तरेभ्यश्च भक्ताः पोङ्कालसमर्पणाय सम्मिलन्ति।