OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, March 17, 2025

 नासा संस्थया भारतीयवंशजा सूनिता विलियम्स् तथा बुच् विलमोर् इत्ययोः प्रत्यागमनस्य कालः प्रकाशितः।

    भारतीयसमयमानुसार श्वः प्रभाते ८.१५ वादने प्रत्यागमनयात्रा आरभ्यते। बुधवासरस्य प्रातः ३.२७ वादने तौ फ्लोरिडातीरे सागरं प्राप्स्यतः।

स्टार्लायनर्-नामकयानस्य तांत्रिकदोषानां कारणात् नवमासाधिककालपर्यन्तम् अन्ताराष्ट्रिय बाह्याकाशनिलये स्थिता सुनिता विलियम्सः तथा बुच् विलमोरः इत्युभौ बुधवासरे पृथिवीं प्रत्यागमिष्यतः। निक् हेग्, अलेक्जान्द्र-गोरबुनेव् इत्येतौ अपि सहगामिनौ भविष्यतः। फ्लोरिडायाः तटस्य समीपे अटलाण्टिक्-महासागरे तेषां आकाशयानं सागरं प्रति पतिष्यति।