OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, March 15, 2025

 कलालयछात्रावासे उन्मादकवस्तुविक्रयः - त्रयः छात्राः निगृहीताः। 

किलोद्वयं 'गञ्चावस्तु' निगृहीतम्। 

कोच्ची> होलि अनुष्ठाने वीर्यवर्धनाय छात्रावासं 'गञ्जा' इत्युन्मादकस्य विपणनकेन्द्रं कुर्वत्सु युवकछात्रेषु त्रयः आरक्षकदलेन निगृहीताः। कोच्चीनगरस्थस्य कलमश्शेरी पोलि टेक्निक् कलालयस्य 'पेरियार्'नामके पुरुषाणां छात्रावासे शुक्रवासरस्य रात्रौ ९. ३० वादनतः शनिवासरस्य प्रत्यूषःपर्यन्तं लहरिविरुद्धविभागस्य आरक्षकसंघस्य च अप्रतीक्षितशीघ्रपरिशोधनायां [Raid] द्विकिलोपरिमितः उन्मादकसञ्चयः मदिराकूप्यः अन्यानि धूमपानोपकरणानि च  संगृहीतानि। पूर्वसूचनामनुसृत्य आसीत् 'रेय्ड् प्रक्रमः'। 

  कलालयछात्राणां मध्ये  होलिदिनोत्सवस्य अंशतया कार्यक्रमाः निश्चिताः। अनुष्ठाने उत्साहाय गूढरीत्या 'वाट्स् अप्' संघं रूपीकृत्य उन्मादकवस्तुविक्रयस्य प्रक्रमाः आरब्धाः। एतदवगम्य कलालयस्थेन लहरिनिर्मार्जनसमित्या पूर्वसूचनां लब्ध्वा आरक्षकसंघेन कृतेन गुप्तासुत्रणेनैव अयं प्रक्रमः विधत्तः।