OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, March 19, 2025

 गासायां पुनराक्रमणम्

राष्ट्रैः अपलपितम्। युद्धविरामलङ्घनमिति हमासः। 

गासा सिटि> गासायाम् इस्रयेलेन कृता सङ्घहत्या संयुक्तराष्ट्रसभया इतरराष्ट्रैश्च अपलपिता। नरहत्यावार्ता संभ्रमजनका इति यू एन् संस्थायाः निदेशकप्रमुखः अन्टोणियो गुटरसः प्रोक्तवान्। 

  सोपानत्रयेण विधातुमुद्दिष्टस्य युद्धविरामसन्धेः लङ्घनं भवति इस्रयेलेन कृतमिति हमासेन प्रस्तुतम्। गासायां शाश्वतशान्तिरिति मध्यस्थानामुद्यमं विलोमीकर्तुमेव इस्रयेलस्य लक्ष्यमिति च आरोपितम्।