OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 9, 2025

 मणिपुरे बस् यानसेवा आरब्धे प्रथमदिने एव संघर्षः - एको हतः। 

इम्फालः> राष्ट्रपतिप्रशासने अनुवर्तमाने मणिपुरे कुक्किवाभागः सुरक्षासेना इत्यनयोर्मिथः संघट्टने एकः प्रक्षोभकः हतः। २५ जनाः आहताः। 

  राज्ये शनिवासरतः स्वतन्त्रसञ्चारः परिपालनीयः इति केन्द्रगृहमन्त्रिणः अमित शाहस्य निर्देशमनुसृत्य सुरक्षासेनायाः अनुगमनेन  बस् यानसेवा आरब्धा। किन्तु यानसेवां विरुध्य कुक्किविभागः प्रतिषेधेन आगत्य वाहनानि दाहयितुमारभत। एतान्प्रतिषेधकान् विरुद्ध्य सुरक्षासेना भुषुण्डिप्रयोगमकरोत्।