OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, March 27, 2025

 सुवर्णोत्पादिका भारतीयनदी। 

   सुवर्णधारा इत्यर्थयुक्ता सुबर्णरेखा नाम भारतीयनदी एव सुवर्णोत्पादनेन प्रसिद्धा अभवत्। जार्खण्ड्, पश्चिमबङ्गदेशः,ओडिसा इत्यादिषु राज्येषु व्याप्य नदी एषा प्रवहति। ४७४ कि. मी आयता एषा नदी भारतस्य 'सुवर्णभण्डागारः' इति नाम्ना विख्याता। जारखण्डस्य राजधान्याः राञ्ज्यात् १६ कि. मी विदूरस्थस्य छोटा नाग्पूर् पीठभूभौ वर्तितस्य नाग्डि नाम ग्रामात् एव एषा नदी उद्भवति । नद्याः तटेभ्यः अनेकवारं शुद्धं सुवर्णं लब्धमस्ति इत्येतत् सुवर्णस्य सान्निध्यं दृढीकरोति। किन्तु नद्यां सुवर्णस्य उद्भवस्थानं कुत्र इति प्रश्नस्य उत्तरम् अज्ञातं भवति। नद्याः उद्भवस्थानभूताः पर्वतप्रदेशाः एव घटनायाः अस्य कारणमिति केचन अभिप्रयन्ति। किन्तु निगमनमेतत् वैज्ञानिकरीत्या न स्थिरीकृतम्। नद्याः तीरे सुवर्णं लभते चेत् तत् स्वायत्तीकर्तुं जनानाम् अधिकारः अपि अस्ति।