प्रतिषेधप्रक्षोभेभ्यः विमुक्तिः।
जन्तरमन्तराय परं सांस्कृतिकपरिवेषः।
'इन्डिया बिनाले' डिसम्बर् ४ तः आरभ्यते। 
जन्तरमन्तरम्।
दिल्ली> इतःपर्यन्तं प्रतिषेध प्रक्षोभाणां वेदिकारूपेण ज्ञायमानं जन्तरमन्तरं परं कला-सांस्कृतिककार्यक्रमाणां वेदिका भविष्यति।
डिसम्बर् चतुर्थदिनाङ्कादारभ्य १०८ दिनानि यावत् दीर्घ्यमानस्य 'इन्डिया बिनाले' प्रदर्शनस्य मुख्यवेदिकारूपेण जन्तरमन्तरं केन्द्र सांस्कृतिकविभागेन निश्चितम्।
राष्ट्रराजधान्यां बहुजनान्दोलनाय प्रतिषेधाय च बहुकालैः यावत् उपयुज्यमानमिदं स्थानं सप्ताहद्वयात्पूर्वं प्रतिषेधस्थानानाम् आवलीतः केन्द्रप्रशासनेन निष्कासितमासीत्।
१७२४ तमे वर्षे जयपुरं महारेजेन सवाय् जयसिंह द्वितीयेन स्थापितं ज्योतिश्शास्त्रनिरीक्षणकेन्द्रमस्ति जन्तर मन्तरम्। सूर्यस्य ग्रहाणां च स्थानं निर्णेतुं सहायकानि १३ ज्योतिश्शास्त्र-वास्तुविद्या उपकरणानि अत्र विद्यन्ते। खगोलानि निरीक्षितुं ग्रहाणां चलनं सूक्ष्मतया प्रवक्तुं च एतैरुपकरणैः शक्यन्ते।