आन्ध्रप्रदेशं लक्ष्यीकृत्य इतरः चक्रवातः समागच्छति।
केरले षट् जनपदेषु अद्य वृष्टिसाध्यता।
अनन्तपुरी> अर्णबचक्रवातमनुगम्य 'मुरश्' इति कृतनामधेयः इतरः चक्रवातोSपि आन्ध्रप्रदेशं लक्ष्यीकृत्य रूपीकृतः अस्ति। वंगसमपद्रान्तराले चेन्नैतः ६३० कि मी पूर्वदक्षिणदिशि एव चक्रवातस्य उद्भवः।
सोमवासरे चक्रवातः तीव्रः भविष्यति। मंगलवासरे प्रत्युषसि १२० कि मी यावत् शीघ्रतां समार्ज्य आन्ध्रे नेल्लूर् नरसपुरम् इत्येतयोर्मध्ये स्थाने भूतलं समेष्यतीति पर्यावरणविभागेन निगदितम्। ओडीषा, आन्ध्रप्रदेशादि राज्येषु जागरूकता पालनीया।
केरले मुरशचक्रवातस्य प्रभावेण बुधवासरपर्यन्तं वृष्टिसाध्यता प्रोक्ता अस्ति। अतः पालक्काट्, मलप्पुरं, कोष़िक्कोट्, वयनाट्, कण्णूर्, कासरगोड जनपदेषु अद्य पीतजागरूकता उद्घोषिता।