OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, October 29, 2022

 ओसोण् स्तरे छिद्रं सङ्कोचयति इति अध्ययनम्।

ओसोण् स्तरेषु छिद्रं सङ्कोचयति इति नूतनानि अध्ययनानि सूचयन्ति। दक्षिणध्रुवे एव एषा घटना। अन्टार्टिक्कायां स्ट्रोटोस्पियर् इत्यस्य उपरि एव छिद्रं दृष्टम्। प्रति संवत्सरं सेप्तंबर् मासे एव मण्डले परिवर्तनानि जायन्ते। गतद्विशताब्धाभ्यन्तरे छिद्रसङ्कोचः इति घटनायै इदं मण्डलं साक्षीभूतम्।

 राष्ट्रे आरक्षकसमवस्त्रेषु एकीकरणमावश्यकम् - नरेन्द्रमोदी।

नवदिल्ली>  राष्ट्रे सर्वत्र आरक्षकाणां समवस्त्रे एकीकरणमावश्यकमिति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी निरदिशत्। हरियानस्य सूरजकुण्डे राज्यगृहमन्त्रिणां चिन्तनशिबिरं ओण्लैन् द्वारा अभिमुखीकुर्वन् भाषमाणः आसीत् मोदिवर्यः। पञ्च - पञ्चाशत् संवत्सराणामन्तरे संभाव्यः आशयः एव न तु बलादावश्यकमिति मोदिना उक्तम्। 

   राज्यानि परस्परसहयोगेन प्रचोदनं समार्ज्य राष्ट्रप्रगतये प्रवर्तमानानि भवेयुः। युवतायाः मार्गभ्रंशकारणस्य  मावोवादस्य उन्मूलनाशः करणीयः इति मोदी उक्तवान्।

Friday, October 28, 2022

 ऋषि सुनकः प्रधानमन्त्रिपदे अभिषिक्तः। 

ब्रिट्टनस्य प्रथमो विदेशीयः प्रधानमन्त्री; भारतवंशजः। 

ऋषिसुनकः 

लण्टनं> ब्रिट्टनस्य ५७ तम  प्रधानमन्त्रिरूपेण भारतीयवंशजः ऋषि सुनकः कुजवासरे स्थानाभिषिक्तः अभवत्। सूर्यास्तरहितसाम्राज्यमिति प्रथितस्य ब्रिट्टनस्य अस्मिन् पदे प्राप्यमाणः प्रथमः विदेशीयः, प्रथमः एष्यावंशजः, प्रथमः हिन्दुधर्मविश्वासी, आधुनिकब्रिट्टनस्य अल्पतमवयसीयः प्रधानन्त्री इत्यादिभिः विशेषणैरेव ४२वयस्कस्य ऋषिसुनकस्य स्थानारोहणम्। 

   समीपकाले ब्रिट्टने सम्पन्ने निर्वाचने 'कण्सर्वेटीव् पार्टी' इत्यस्य राजनैतिकदलस्य नेतृरूपेण तथा प्रधानमन्त्रिपदेन च निर्वाचिता लिस् ट्रस् वर्या ४५तमे दिने अप्रायोगिकार्थिकनयहेतुना स्थानं त्यक्तवती इत्यस्मात् तस्याः प्रतियोगिरूपेण स्पर्धितवान् ऋषिसुनकः पूर्वोक्तदलस्य नेतृस्थाने अवरोधितः प्रधानमन्त्रिपदं लब्धवान् च।

 अन्तरिक्षे हरितगृहवातकानां सान्निध्यं वर्धते।

अन्तरिक्षे हरितगृहवातकानां सान्निध्यं वर्धते इति अध्ययनफलम्। वेल्ट् मेट्टरियोलजिक्कल् संस्थायाः नूतनप्रतिवेदनानुसारं त्रयाणां हरितगृहवातकानां सान्निध्यमेव वर्धितम्। मीथैन्, कार्बण्डयोक्सैड्, नैट्रजन् डयोक्सैड् हरितगृहवातकानां सान्निध्यमेव अधिकतया वर्धितम्। मीथैनस्य परिमाणः अतिभीतिदः इति अध्ययनानि सूचयन्ति।

Thursday, October 27, 2022

 अभिमाननिमेषः - द्वयोः भारतीय समुद्रतटयोः अपि ब्लू फ्लाग् प्रमाणपत्रलब्धिः।

राष्ट्रे द्वयोः भारतीयसमुद्रतटयोः अपि ब्लू फ्लाग् प्रमाणपत्रं लब्धम्। लक्षद्वीपे मिनिकोय् तुण्टि समुद्रतटस्य तथा कटमत्त् समुद्रनटस्य च अङ्गीकारः लब्धः। केन्द्रपर्यावरणविभागस्य मन्त्री भूपेन्दर् यादवेनैव विषयमिंदं सामाजिक माध्यमाय आवेदितम्। 'अभिमाननिमेषः एषः' इति भूपेन्द्रयादवेन सामाजिकमाध्यमद्वारा आवेदितम्।

Tuesday, October 25, 2022

 विंशति-२० विश्वचषकस्पर्धा - कोलिकौशले भारतस्य विजयः। 

मेल्बण्> विराट् कोलिनः अत्युज्वलेन कन्दुकताडनेन विंशति-२० विश्वचषकस्पर्धायाः भारत-पाकिस्थानप्रतिद्वन्द्वे भारतस्य विजयप्राप्तिः।  पाकिस्थानं चतुर्णां द्वारकाणां विनष्टेन भारतेन  १६० धावनाङ्काः इति विजयलक्ष्यं प्राप्तम्। ५३ कन्दुकेभ्यः ८२ धावनाङ्कान् प्राप्य अजय्यः संवृत्तः विराट् कोली एव भारतस्य विजयशिल्पी।

  स्पर्धायाः प्रथमपादे पाकिस्थानं २० क्षेपणचक्रैः १५९ - ८ इति धावनाङ्कान् प्राप्तवत्। भारतं तु प्रतिस्पर्धायां ६ ताडकान् समर्प्य १६० धावनाङ्कान् प्राप्तवत्। अन्तिमे क्षेपणचक्रे आसीत् भारतस्य उत्साहभरितः विजयः।

Monday, October 24, 2022

 षि जिन् पिङः सर्वाधिकारी। तृतीयवारं नेतृरूपेण चितः। 

बीजिङ्> तृतीयवारमपि चीनीयकम्यूणिस्ट् राजनैतिकदलस्य मुख्यकार्यदर्शिरूपेण 'ऐककण्येन' निर्वाचितः षि जिन् पिङः चरित्रं रचितवान्। दलस्य स्थापकः मावो से तूङ् इत्यस्यानन्तरं दलाध्यक्षरूपेण तृतीयवारं निर्वाच्यमानः प्रथमनेता भवति षि वर्यः। 

   सायुधसेनानांं नियन्त्रकत्वेन वर्तमानः Central Military Commission [सि एम् सि] इत्यस्य अध्यक्षरूपेण च षि चितः। अनेन राष्टपतिः, दलाध्यक्षः, सि एम् सि अध्यक्षः इति स्थानत्रये अपि षि एव अनुवर्तिष्यते।

आक्रमणान् अस्मान् शक्तं कुर्वन्ति इति युक्रैन् जनाः।

कीव्> रष्यस्य व्योमाक्रमणेन विद्युत्बन्धः अपि विनष्टाः चेदपि क्लमं विना ऊर्जस्वलतया तिष्टन्ति युक्रेनस्य जनाः। एते रात्रौ सिग्धवर्तिकायाः साहायेन रात्रि भोजनं कुर्वन्ति। "भोजनालये रात्रौ सिग्धवर्तिकायाः प्रकाशे सुहृद्जनैः साकं वयं मिलामः भोजनं कुर्मः। अस्माकं शिशवः तस्याः प्रकाशे क्रीडन्तः सन्ति। प्रौढाः मिथः विलक्षणम्‌ उक्त्वा हसन्ति। कस्यापि युद्धस्य अस्मान् पराजयतुं न शक्यते'' इति वदन्ति जनाः।

Sunday, October 23, 2022

एल् वि एम् -३ विक्षेपणं विजयप्रदम्। ३६ उपग्रहाः भ्रमणपथेषु। चरित्रमारच्य ऐ एस् आर् ओ।


श्रीहरिकोट्टा> ब्रिट्टिष् अन्तर्जालसेवादातुः 'वण् वेब्' इत्यस्य ३६ उपग्रहान् ऊढ्वा एल् वि एम् - ३ इति आकाशबाणः श्रीहरिकोट्टायाः विक्षिप्तः। विक्षेपणं विजयप्रदमिति ऐ एस् आर् ओ संस्थया प्रोक्तम्। एन् वि एम् ३ सतीष् धवान् बहिराकाशकेन्द्रात् उपरि उत्थिते  भारतस्य उपग्रहविक्षेपणमण्डले नूतनं चरित्रमेव आरचितम्। ५४०० किलोग्राम् भारयुक्ताः उपग्रहाः यदा भ्रमणपदं प्राप्स्यन्ति तदा ऐ एस् आर् ओ संस्थायाः अभिमाननिमेषाः एव। एतावन्तः भारयुक्ताः उपग्रहाः इदंप्रथमतया एव विक्षिप्ताः।

चन्द्रः भूम्याः दूरं प्रयाति इति अध्ययनम्।

न्यूयोर्क> भूमिचन्द्रयोः मध्ये दूरं वर्धते इति  बाह्याकाशवैज्ञानिकाः वदन्ति। प्रतिसंवत्सरं भूमेः चन्द्रस्य च मिथः दूरं वर्धते इति वैज्ञानिकैः संदृष्टम्। नासायाः अप्पोलो नियोगात् एव एतत्संबन्धीनि विवरणानि वैज्ञानिकेभ्यः उपलब्धानि।

Saturday, October 22, 2022

अरुणाचलप्रदेशे स्थलसेनायाः उदग्रयानं भग्नम्। चत्वारः सैनिकाः वीरमृत्युं प्राप्ताः।

गुहावति> अरुणाचलप्रदेशे सियाङ्जिल्लायां स्थलसेनायाः उदग्रयानं प्रभज्य चत्वारः सैनिकाः वीरमृत्युमुपगताः। मिग्गिङ् इति प्रदेशे ह्यः प्रभाते १०.४ ३ वादने एव अपघातः दुरापन्नः। चतुर्णां सैनिकानां मृतशरीराणि प्रत्याहृतानि। पञ्च सैनिकाः उदग्रयाने आसीत्। रक्षाप्रवर्तनानि अनुवर्तते।

 अहितम् आर्थिकनयः - ब्रिट्टनस्य प्रधानमन्त्री लिस् ट्रस् स्थानं त्यक्तवती। 

लिस् ट्रस्

लण्टनं>  अहितं आर्थिकनयं स्वीकृत्य राष्ट्रम् आर्थिकप्रतिसन्धिमानीता इति दुष्कीर्त्या ब्रिट्टनस्य प्रधानमन्त्री लिस् ट्रस् वर्या स्वस्थानात् त्यागपत्रं समर्पितवती। स्थानारोहणानन्तरं ४५ तमे दिने भवति तस्याः स्थानत्यागः। 

   स्थानारोहणे कृते एव विविधानां कराणां मानं अधिकतया न्यूनीकृतम्। अतः 'पौण्ट्' इत्यस्य मूल्यमपि अपचितम्। राष्ट्रे आर्थिकप्रतिसन्धिः तीव्र अभवच्च। किन्तु वित्तमन्त्रिणं क्वासि क्वार्टङ् इत्येनं निष्कास्य विवादशमनाय प्रयत्तवती तथापि निष्प्रयोजनमभवत्। अस्याः स्थानत्यागः अनिवार्यः जातः। 

  राष्ट्रे नूतनं प्रधानमन्त्रिणं अधिगन्तुं प्रक्रमाः आरब्धाः।

Friday, October 21, 2022

 आविश्वं प्रबाधमानःआगामि सांक्रमिकरोगः द्रवीभूयमानात् हिमात् इति अध्ययनफलम्।

वार्ताहरा - रमा टि के 

आगमि सांक्रमिकरोगः खगात् तथा जतुकात् न भवति द्रवीभूतहिमात् इति अध्ययनानि सूचयन्ति। आर्टिक् मण्डलस्थे शुद्धजलतडाकात् स्वीकृतस्य मृदस्य जनितकविवेचनम् आधारीकृत्य कृतमध्ययनप्रतिवेदनं एव बहिरागतः। हिमानि यत्र द्रवति तत्समीपे नूतन सांक्रमिकरोगाः प्रादुर्भविष्यन्ति। एषु मण्डलेषु वैराणूनां सान्निध्यम् अधिकतया संदृष्टः अस्ति।


Thursday, October 20, 2022

 अर्थनाः अङ्गीकृताः; दयाबायी निराहारसत्यग्रहं समापितवती।

अनन्तपुरी> एन्डोसल्फान् क्लेशबाधितेभ्यः उन्नीताः अर्थनाः अङ्गीकर्तुं केरलसर्वकारः सन्नद्धतां प्राकटयत् इत्यतः दयाबायिवर्यया १८ दिनैः अनुवर्तमानः निराहारसत्यग्रहः परिसमाप्तिं  प्राप। अर्थनानाम् अङ्गीकारनिर्णयस्य प्रमाणपत्रं मन्त्रिण्यौ वीणाजोर्जः आर् बिन्दुश्च आतुरालयं समागत्य दयाबाय्यै दत्तवत्यौ। अनेन विधानसभायाः पुरतः १८ दिवसात्मकेन अनुवर्तमानः आन्दोलनसमित्याः निराहारान्दोलनाय विजयपरिसमाप्तिः।

Wednesday, October 19, 2022

 तरूरं विजित्य खार्गे। 

नवदिल्ली> चतुर्विंशतिसंवत्सराणां चरितम् उल्लङ्घ्य काँग्रस् दलाध्यक्षः नेह्रु परिवारात् बहिः कोऽपि चितः अभवत्। 9497 सम्मतिदानेषु 7897 अङ्गानां मतानि मल्लिकार्जुन-खार्गे महोदयाय अनुकूलानि अभवन्। 1072 मतानि तरूर् महोदयाय लब्धानि। 416 मतानि अपव्ययानि अभवन्।

 के जयरामन् नम्पूतिरिः शबरिगिर्यां मुख्यार्चकः।

शबरिमला> अस्य संवत्सरस्य 'मण्डलकाले' शबरिगिरि श्रीधर्मशास्तृमन्दिरे कण्णूर् जनपदस्थे तलिप्परम्पप्रदेशीयः के जयरामन् नम्पूतिरिः - ४८ वयस्कः -  अर्चकमुख्यः भविष्यति। समीपस्थे मालिकप्पुरं मन्दिरे कोट्टयं जनपदस्थे वैक्कं निवासी हरिहरन् नम्पूतिरिः [५०] अर्चकमुख्यः भविष्यति। 

  ह्यः मन्दिरसन्निधाने सम्पन्ने दैवेच्छानिर्णये आसीत् एतयोः मुख्यार्चकत्वं विहितम्।

 डि वै चन्द्रचूडः भारतस्य नूतनः मुख्यन्यायाधिपः। 

नवदिल्ली> भारतसर्वोच्चन्यायालयस्य ५० तमः मुख्यन्यायाधिपरूपेण डि वै चन्द्रचूडः राष्ट्रपतिना  नियुक्तः। इदानीन्तनमुख्यन्यायाधिपस्य यू यू ललितवर्यस्य निवृत्त्यनन्तरं नवम्बर नवमे दिनाङ्के सः स्थानं स्वीकरिष्यति।

 विश्वस्मिन् प्रथमं बृहत्तमं प्रतिरोधवस्तुनिर्माणकेन्द्रःभविष्यति भारतम् इति प्रतिरोधमन्त्री राजनाथसिंहः। 

गान्धीनगर्> आगामि पञ्चविंशतिसंवत्सराभ्यन्तरे विश्वस्मिन् प्रथमं बृहत्तमं प्रतिरोधवस्तुनिर्माणकेन्द्रः 'भविष्यति भारतम् इति प्रतिरोधमन्त्री राजनाथसिंहः अवदत्। गान्धीनगरे प्रचलितं डिफेन्स् एक्स्पो२०२२ इति कार्यक्रमम् अभिसंबुध्य प्रभाषणमाणः आसीत् अयम्। अभिमानं प्रति पन्था: इति एक्स्पो २०२२ प्रदर्शिन्याः आशयः वृथा न भाषितं भविष्यति किन्तु नूतनभारतस्य नूतनलक्ष्यमेव इति तेन निगदितम्।

Tuesday, October 18, 2022

 केदारनाथे दुरापन्ने उदग्रयानापघाते षट् जनाः मृताः।

उत्तराखण्डः> उत्तराखण्डे केदारनाथस्य समीपे दुरापन्ने उदगयानापघाते द्वौ वैमानिकौ चत्वारः तीर्थाटकाः च मृताः। गरु छत्ति मण्डलेषु एव उदग्रयानं प्रभज्य पतितम्। षण्णां मृतशरीराणि प्रत्याहृतानि। रक्षाप्रवर्तनानि अनुवर्तन्ते। केदारनाथात् प्रस्थानानन्तरं विलम्बं विना उदग्रयानम् अग्निबाधितमभवत्।

 ओ आर् एस् जीवरक्षा लवणस्य संयोजकः डा दिलीप् महलनाबिसः दिवङ्गतः। 

कोल्कत्ता> कोलरा व्याधेः अतिव्यापनकाले जनानां जीवरक्षायै ओ आर् एस् इति संयुक्त लवणस्य सम्योगम् उपयुज्य जनानां जीवान् अरक्षत् डा. दिलीप् महलनाबिसः। ८८ वयस्क: एषः महोदय: वार्धक्य सहजया अस्वास्थेन ह्यः दिवङ्गतः। 1964 तमे तेन कृतं प्रथमं ORS लवणपरीक्षणम् विजयप्रदमासीत्।

Monday, October 17, 2022

 कोण्ग्रस् अध्यक्षनिर्वाचनम् अद्य। 

मल्लिकार्जुनखार्गे शशि तरूरः च 

नवदिल्ली> इन्ड्यन् नाषणल् कोण्ग्रस् नामकराजनैतिकदस्य आभारतीयाध्यक्षनिर्वाचनाय अद्य मतदानप्रक्रिया सम्पद्यते। जनाधिपत्यरीत्या सम्पद्यमाने निर्वाचने ९३०८ मतदानिनः विद्यन्ते। मल्लिकार्जुन खार्गे इति अशीतिवयस्कः शशि तरूर् नामकः षष्टिवयस्कश्च अध्यक्षपदाय स्पर्धमानै स्तः। विविधराज्येषु तेषां प्रचरणं सामान्येन सम्पूर्णमभवत्। 

  निर्वाचनसज्जीकरणं सर्वं पूर्तीकृतमिति कोण्ग्रसः राष्ट्रीयनिर्वाचनसमित्याः अध्यक्षः मधुसूदनमिस्त्री अवोचत्। विविधराज्येषु पूर्वमेव निर्णीतेषु स्थानेषु मतदानपेटिकाः सज्जीकृताः। पूर्णतया रहस्यरीत्या एव मतदानं सम्पत्यते। मतदानानन्तरं  मतदानपेटिकाः सर्वाः दिल्लीमानीय मतदानपत्रिकाणि सम्मिश्रीकृत्य बुधवासरे दशवादने  गणनाप्रक्रिया आरप्स्यते। यः कोSपि विजयं प्राप्नोति तर्हि २४ संवत्सरानन्तरं प्रथमतया नेह्रुकुटुम्बाद्बाह्यतः कश्चन कोण्ग्रसदलं नेष्यतीति सविशेषता अस्ति।

Sunday, October 16, 2022

 एष्याचषकवनिताक्रिक्कट् - भारतं विजितम्। 

सिल्हेट्> वनितानां विंशति-२० एष्याचषक क्रिक्कट् स्पर्धापरम्परायाः अन्तिमस्पर्धायां श्रीलङ्कां पराजित्य भारतं सप्तमवारमपि किरीटमलभत। ६६ धावनाङ्कानां विजयक्ष्यं ८. ३ क्षेपणचक्रैः केवलं ताडकद्वयं विनश्य ७१ धावनाङ्कान् प्राप्तं भारतेन। 

  रेणुका सिंहः श्रेष्ठक्रीडिकापदं प्राप्तवती। चतुर्भिः क्षेपणचक्रैः ५ धावनाङ्कान् प्रदाय क्रीडिकात्रयं बहिर्नीतवती सा। आहत्य २३ क्रीडिकाणां बहिर्नयनं ९४ धावनाङ्कान् च लब्ध्वा दीप्ती शर्मा परम्परायाः श्रेष्ठकीडिकेति पदं प्राप्तवती।

 नवदिल्ल्यां वायुमलिनीकरणेन सह जलमलिनीकरणञ्च।


  नवदिल्ल्यां वायुमलिनीकरण-समस्यया सह जलमलिनीकरणमपि प्रधानसमस्या अभवत्। यमुनानदीमलिनीकरणं नूतनभीषां जनयत् अस्ति। यमुनानद्यां नोय्डामण्डलेषु मलिनीकरणमानं क्रमेण वर्धमानः सन् दृश्यते। यमुनानद्याः केचन मण्डलेषु प्राणवायोः परिमाणमपि आकुञ्चति। अनेन कारणेन प्रधानमन्त्री 'नरेन्द्रमोदीमत्स्यसंपद्' योजनायाः भागतया नद्यां कर्तुं निश्चितः मत्स्यनिक्षेपः परित्यक्तः। प्रत्युत मत्स्यानेतान् गङ्गानद्यां हापूर् मण्डले निक्षिप्यति। रोहु, कट्ल इति मत्स्यविभेदौ एव निक्षिपतः।

Saturday, October 15, 2022

 उड्डयनकाले विमानस्य चक्रम् अधः पतितम्। 


रोम्> इट्टलीस्थे टोरण्टो विमाननिलयात् उड्डयनावसरे पण्यविमानस्य चक्रम् अधः गलितम्। 'अट्लस् एयर्' इत्यस्य बोयिङ् 747 इति विमानस्य आसीत् इयं दुर्घटना । क्षतिं विना विमानं भूमौ अवतारितम् । 



 हिमाचले विधानसभानिर्वाचनोद्घोषणा।

निर्वाचनं नवम्बर् १२तमे; फलं डिसम्बर् ८ तमे। 

नवदिल्ली> हिमाचलप्रदेशस्य विधानसभानिर्वाचनं नवम्बरमासस्य १२तमे दिनाङ्के सम्पत्स्यति। मतगणना डिसम्बरमासस्य अष्टमे दिने भविष्यतीति निर्वाचनायोगेन निगदितम्। 

  हिमाचले ६८ अंगसदस्ययुक्ता सभा वर्तते। राज्ये व्यवहारनियमः प्रवृत्तिपथमागतः। विज्ञापनं १७तमे दिनाङ्के करिष्यति। नामनिर्देशपत्रिकासमर्पणस्य अन्तिमं दिनं नवंबर २५। सूक्ष्मपरिशोधनं नवंबर् २७।