OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 25, 2022

 विंशति-२० विश्वचषकस्पर्धा - कोलिकौशले भारतस्य विजयः। 

मेल्बण्> विराट् कोलिनः अत्युज्वलेन कन्दुकताडनेन विंशति-२० विश्वचषकस्पर्धायाः भारत-पाकिस्थानप्रतिद्वन्द्वे भारतस्य विजयप्राप्तिः।  पाकिस्थानं चतुर्णां द्वारकाणां विनष्टेन भारतेन  १६० धावनाङ्काः इति विजयलक्ष्यं प्राप्तम्। ५३ कन्दुकेभ्यः ८२ धावनाङ्कान् प्राप्य अजय्यः संवृत्तः विराट् कोली एव भारतस्य विजयशिल्पी।

  स्पर्धायाः प्रथमपादे पाकिस्थानं २० क्षेपणचक्रैः १५९ - ८ इति धावनाङ्कान् प्राप्तवत्। भारतं तु प्रतिस्पर्धायां ६ ताडकान् समर्प्य १६० धावनाङ्कान् प्राप्तवत्। अन्तिमे क्षेपणचक्रे आसीत् भारतस्य उत्साहभरितः विजयः।