OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 22, 2022

 अहितम् आर्थिकनयः - ब्रिट्टनस्य प्रधानमन्त्री लिस् ट्रस् स्थानं त्यक्तवती। 

लिस् ट्रस्

लण्टनं>  अहितं आर्थिकनयं स्वीकृत्य राष्ट्रम् आर्थिकप्रतिसन्धिमानीता इति दुष्कीर्त्या ब्रिट्टनस्य प्रधानमन्त्री लिस् ट्रस् वर्या स्वस्थानात् त्यागपत्रं समर्पितवती। स्थानारोहणानन्तरं ४५ तमे दिने भवति तस्याः स्थानत्यागः। 

   स्थानारोहणे कृते एव विविधानां कराणां मानं अधिकतया न्यूनीकृतम्। अतः 'पौण्ट्' इत्यस्य मूल्यमपि अपचितम्। राष्ट्रे आर्थिकप्रतिसन्धिः तीव्र अभवच्च। किन्तु वित्तमन्त्रिणं क्वासि क्वार्टङ् इत्येनं निष्कास्य विवादशमनाय प्रयत्तवती तथापि निष्प्रयोजनमभवत्। अस्याः स्थानत्यागः अनिवार्यः जातः। 

  राष्ट्रे नूतनं प्रधानमन्त्रिणं अधिगन्तुं प्रक्रमाः आरब्धाः।