OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 16, 2022

 नवदिल्ल्यां वायुमलिनीकरणेन सह जलमलिनीकरणञ्च।


  नवदिल्ल्यां वायुमलिनीकरण-समस्यया सह जलमलिनीकरणमपि प्रधानसमस्या अभवत्। यमुनानदीमलिनीकरणं नूतनभीषां जनयत् अस्ति। यमुनानद्यां नोय्डामण्डलेषु मलिनीकरणमानं क्रमेण वर्धमानः सन् दृश्यते। यमुनानद्याः केचन मण्डलेषु प्राणवायोः परिमाणमपि आकुञ्चति। अनेन कारणेन प्रधानमन्त्री 'नरेन्द्रमोदीमत्स्यसंपद्' योजनायाः भागतया नद्यां कर्तुं निश्चितः मत्स्यनिक्षेपः परित्यक्तः। प्रत्युत मत्स्यानेतान् गङ्गानद्यां हापूर् मण्डले निक्षिप्यति। रोहु, कट्ल इति मत्स्यविभेदौ एव निक्षिपतः।