OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 20, 2022

 अर्थनाः अङ्गीकृताः; दयाबायी निराहारसत्यग्रहं समापितवती।

अनन्तपुरी> एन्डोसल्फान् क्लेशबाधितेभ्यः उन्नीताः अर्थनाः अङ्गीकर्तुं केरलसर्वकारः सन्नद्धतां प्राकटयत् इत्यतः दयाबायिवर्यया १८ दिनैः अनुवर्तमानः निराहारसत्यग्रहः परिसमाप्तिं  प्राप। अर्थनानाम् अङ्गीकारनिर्णयस्य प्रमाणपत्रं मन्त्रिण्यौ वीणाजोर्जः आर् बिन्दुश्च आतुरालयं समागत्य दयाबाय्यै दत्तवत्यौ। अनेन विधानसभायाः पुरतः १८ दिवसात्मकेन अनुवर्तमानः आन्दोलनसमित्याः निराहारान्दोलनाय विजयपरिसमाप्तिः।