OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 17, 2022

 कोण्ग्रस् अध्यक्षनिर्वाचनम् अद्य। 

मल्लिकार्जुनखार्गे शशि तरूरः च 

नवदिल्ली> इन्ड्यन् नाषणल् कोण्ग्रस् नामकराजनैतिकदस्य आभारतीयाध्यक्षनिर्वाचनाय अद्य मतदानप्रक्रिया सम्पद्यते। जनाधिपत्यरीत्या सम्पद्यमाने निर्वाचने ९३०८ मतदानिनः विद्यन्ते। मल्लिकार्जुन खार्गे इति अशीतिवयस्कः शशि तरूर् नामकः षष्टिवयस्कश्च अध्यक्षपदाय स्पर्धमानै स्तः। विविधराज्येषु तेषां प्रचरणं सामान्येन सम्पूर्णमभवत्। 

  निर्वाचनसज्जीकरणं सर्वं पूर्तीकृतमिति कोण्ग्रसः राष्ट्रीयनिर्वाचनसमित्याः अध्यक्षः मधुसूदनमिस्त्री अवोचत्। विविधराज्येषु पूर्वमेव निर्णीतेषु स्थानेषु मतदानपेटिकाः सज्जीकृताः। पूर्णतया रहस्यरीत्या एव मतदानं सम्पत्यते। मतदानानन्तरं  मतदानपेटिकाः सर्वाः दिल्लीमानीय मतदानपत्रिकाणि सम्मिश्रीकृत्य बुधवासरे दशवादने  गणनाप्रक्रिया आरप्स्यते। यः कोSपि विजयं प्राप्नोति तर्हि २४ संवत्सरानन्तरं प्रथमतया नेह्रुकुटुम्बाद्बाह्यतः कश्चन कोण्ग्रसदलं नेष्यतीति सविशेषता अस्ति।