OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 28, 2022

 ऋषि सुनकः प्रधानमन्त्रिपदे अभिषिक्तः। 

ब्रिट्टनस्य प्रथमो विदेशीयः प्रधानमन्त्री; भारतवंशजः। 

ऋषिसुनकः 

लण्टनं> ब्रिट्टनस्य ५७ तम  प्रधानमन्त्रिरूपेण भारतीयवंशजः ऋषि सुनकः कुजवासरे स्थानाभिषिक्तः अभवत्। सूर्यास्तरहितसाम्राज्यमिति प्रथितस्य ब्रिट्टनस्य अस्मिन् पदे प्राप्यमाणः प्रथमः विदेशीयः, प्रथमः एष्यावंशजः, प्रथमः हिन्दुधर्मविश्वासी, आधुनिकब्रिट्टनस्य अल्पतमवयसीयः प्रधानन्त्री इत्यादिभिः विशेषणैरेव ४२वयस्कस्य ऋषिसुनकस्य स्थानारोहणम्। 

   समीपकाले ब्रिट्टने सम्पन्ने निर्वाचने 'कण्सर्वेटीव् पार्टी' इत्यस्य राजनैतिकदलस्य नेतृरूपेण तथा प्रधानमन्त्रिपदेन च निर्वाचिता लिस् ट्रस् वर्या ४५तमे दिने अप्रायोगिकार्थिकनयहेतुना स्थानं त्यक्तवती इत्यस्मात् तस्याः प्रतियोगिरूपेण स्पर्धितवान् ऋषिसुनकः पूर्वोक्तदलस्य नेतृस्थाने अवरोधितः प्रधानमन्त्रिपदं लब्धवान् च।