OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, June 13, 2025

 अहम्मदाबाद विमानदुर्घटना 

मरणानि २९४ अभवन्। २४२ यात्रिकेषु २४१ जनाः अपि मृताः। एकः अद्भुतेन रक्षां प्राप्तः। 

मृतेषु इतरे तद्देशवासिनः। 

भग्नविमानस्य अंशः। 

अहम्मदाबादः> ह्यः अपराह्ने अहम्मदाबादस्थस्य सर्दार् वलभायि पटेल् अन्ताराष्ट्रविमाननिलयस्य आकाशे दुरापन्ने अतिदारुणे दैवनिर्घाते मृतानां संख्या २९४ इति वर्धिता। १२ विमानसेवकान् अभिव्याप्य २४२ यात्रिकेषु एकं विहाय सर्वे मृत्युमुपगताः। भारतीयवंशजः ब्रिटननागरिकः विश्वास् कुमार रमेशः अत्यद्भुतदैवेन राक्षां प्राप। आपत्कालीनद्वारसमीपम् उपविशन् सः विमाने विस्फोटिते आपत्कालीनद्वारेण बहिः पतितः आसीत्। 

   विमानस्य  उड्डयनवेलायां विमानं यदा भूतलात् ६२५ पादमितं उच्चस्थितं नियन्त्रणं विनश्य समीपस्थस्य बी जि मेडिकल् कोलिज् इति आतुरालयस्य भोजनशालां प्रपतितम्। तदनन्तरं वैद्यकावासस्य उपरि पतितम्। तत्रत्याः वैद्यकच्छात्राः इतरे समीपवर्तिन एव मृताः ५३ जनाः। षष्टि जनाः परिचर्यायां वर्तन्ते। 

 लण्टनं प्रति गम्यमानम्  एयर् इन्डिया संस्थायाः बोयिंग् 'ड्रीम् लैनर्' ७८७ - ८ इति विमानमस्ति दुर्घटितम्। उड्डयनसमये एव विमानचालकेन आपत्सन्देशः प्रेषितः। दुर्घटनाहेतुः क इति न प्रत्यभिज्ञातः। एन् ऐ ए संस्थासहिताः विविधाः अन्वेषणसंस्थाः दुर्घटनास्थानं प्राप्य मार्गणमारब्धवत्यः। गृहमन्त्री अमित शाहः अहम्मदाबादं प्राप्य आवश्यकान् निर्देशान् दत्तवान्।

 अहम्मदाबाद विमानदुरन्तः 

आराष्ट्रं जाग्रत्तानिर्देशः।

नवदिल्ली> अहम्मदाबादे यात्राविमानं प्रभञ्ज्य २४८ जनाः मृत्युमुपगताः इत्यस्य भूमिकायां भारतमशेषं विमाननिलयेषु सुरक्षापरिशोधनानि कर्कशं कर्तुं व्योमयानमन्त्रालयस्य सुरक्षाविभागेन निर्दिष्टम्। यात्रिकाः तेषां भाण्डानि च परिशोधनाधीनानि भविष्यन्ति। विमानस्य तन्त्रांशान् च कर्कशेन परिशोधयिष्यन्ति।

 द्वौ मावोवादिनौ निहतौ। 

सुक्मा> छत्तीसगढे सुक्मा जनपदे सुरक्षासेनया सह प्रतिद्वन्द्वे द्वौ मावोवादिनौ निहतौ। बुधवासरे कुक्कनार् आरक्षकाधिकारप्रदेशे आसीत् प्रतिद्वन्द्वः। ततः आयुधानि निगृहीतानि। गतदिने सुक्मास्थाने खन्यस्फोटकेन (mine) सूप्रण्ट् पदीय‌ः आरक्षकाधिकारी हत आसीत्।

Thursday, June 12, 2025

 अहम्मदाबादे आकाशदुरन्ते गुजरातस्य पूर्वतनमुख्यमन्त्री दिवंगतः। 


अहम्मदाबादः> अहम्मदाबादे अद्य अपराह्ने दुरापन्ने विमानदुरन्ते गुजरातस्य पूर्वतनमुख्यमन्त्री विजय रूपाणिवर्यः दिवंगतः। लण्टनमधिवसन्तीं स्वपुत्रीं सन्द्रष्टुं लण्टनं गच्छन्नासीत्।  भा ज पा दलनेता रूपाणिवर्यः २०१६ तः २०२१ पर्यन्तं गुजरातस्य मुख्यमन्त्री आसीत्।  

 अहम्मदाबादात् लण्टनं प्रति गच्छत् एयर् इन्डिया संस्थायाः बोयिंग् ७८७ विमानं उड्डयनमारभ्य निमेषद्वयाभ्यन्तरे महास्फोटनेन अग्निगोलाकारं भूत्वा भग्नमापतितम्। आहत्य २४२ यात्रिकेषु एकमपहाय सर्वे विनष्टप्राणाः इति सूच्यते।

 अहम्मदाबादे विमानुर्घटना - १३३ जनाः मृत्युमुपगताः।

विमानदुर्घटनायाः विदूरदृश्यम्। 

भूतपूर्वः गुजरातमुख्यमन्त्री तीव्रेण आहतः। 

उड्डीय पञ्च निमेषाभ्यन्तरे ६२५ पादमितात् उच्चतः छात्रावासभवनस्योपरि पतितम्। 

आहत्य २४२ जनाः - २३० यात्रिकाः, १२ सेवाजनाः। 

अहम्मदाबादः> गुजराते अहमदाबादस्थे  विमाननिलयात् उड्डीयमानं एयर् इन्डिया संस्थायाः बोयिंङ् ७८७ विमानं पञ्च मिनिट् समयानन्तरं महच्छब्देन अग्निकाण्डेन च सह  समीपस्थस्य छात्रावासस्य उपरि पतत् आसीत्। इतःपर्यन्तं १३३ यात्रिकाः मृताः इति सूच्यते। 

आहत्य २४२ जनाः   विमाने आसन्। २३०  यात्रिकाः १२ सेवकाश्च। १६९ भारतीयाः, ५३ ब्रिटीनीयाः, ७ पोर्गीसनागरिकाः, एकः कनेडियः च आसन्। 

  विमाने यात्रिकः गुजरातस्य भूतपूर्वः मुख्यमन्त्री विजय रूपाणी कठिनतया आहतः इति सूच्यते।

 विश्वचषकपादकन्दुकक्रीडा

ब्रसीलम् अभिव्याप्य त्रयोदश राष्ट्राणि योग्यतां प्राप्तानि। 

सर्वेषु विश्वचषकेषु योग्यतामुपस्थापितवत् एकमेव दलमिति ख्यातिः ब्रसीलाय। 

सावो पोलो > कार्लोस् आन्जलोटी नामकस्य परिशीलकस्य तन्त्रनैपुण्यात् ब्रसीलराष्ट्रस्य पादकन्दुकदलं आगामिवर्षे सम्पत्स्यमानायां  विश्वचषकपादकन्दुकक्रीडायां योग्यतां सम्पादयामास।। पराग्वे दलं पराजित्य एव ब्रसीलस्य योग्यतालब्धिः। अनेन सर्वास्वपि विश्वचषकस्पर्धासु क्षमतां प्राप्तवत् एकमेव दलमिति ख्यातिरपि ब्रसीलेन  अवस्थापिता। 

   इतःपर्यन्तं त्रयोदश दलानि विश्वचषकाय क्षमतां प्राप्तानि। अमेरिका, कानडा, मेक्सिको इत्येतानि आतिथेयराष्ट्राणि विना आस्ट्रेलिया, इरानं, जापानं, जोर्दानः, दक्षिणकोरिया, उस्बकिस्थानं, अर्जन्टीना, एक्वडोर्, न्यूसिलान्ट्, ब्रसीलः इत्येतानि दश राष्ट्राणि च क्षमतामुपालभन्त। २०२६ विश्वचषकपादकन्दुकक्रीडायाम् आहत्य अष्टचत्वारिंशत् राष्ट्राणि भागं करिष्यन्ति।

 प्रज्वलिता पण्यमहानौका नियन्त्रणाधीना। 

अग्निप्रशमनं विजयं प्राप्नोति। महानौकां सुदूरमपनेतुम् आरब्धः। 

लोहरज्जुना बन्धिता पण्यमहानौका। 

कोष़िक्कोट्> दिनत्रयात्पूर्वं केरलतीरसमीपम् अन्ताराष्टियमहानौकामार्गे अग्निकाण्डाधीना 'एम् वि वान्हाय् ५०३' नामिका पण्यमहानौका तटसंरक्षणसेनायाः नियन्त्रणे अभवत्। महानौकायाः पुरतःपार्श्वे उदग्रयानात् अतिसाहसिकतया अवतीर्य शक्तियुक्तं लोहरज्जुमुपयुज्य बद्ध्वा तीरात् सुदूरमपनेतुम् उद्यमः तटसंरक्षणसेनया आरब्धः। तदर्थं महानौकां तटसंरक्षणसेनायाः 'समुद्रप्रहरी'ति महानौकया सह बबन्ध। रक्षादौत्याय मुम्बयीतः जलयानद्वयं च समागतम्। 

    तिसृणां महानौकानां नैकानां डोणियर् विमानानां च साह्येन अदृष्टेभ्यः चतुर्भ्यः वृत्तिकरेभ्यः मार्गणमनुवर्तते। अदृष्टाः चत्वारः महानौकायामेव लग्नाः इति सन्देहः वर्तते।

 अद्य आरभ्य केरले तीव्रा वृष्टिः। 

अनन्तपुरी> कतिपयदिनानां विरामानन्तरं केरले वर्षाः तीव्राः भविष्यन्ति। गुरुवासरे चतुर्षु जनपदेषु ओरञ्च् जागरूकता घोषिता। इतरेषु पीतजागरूकता च घोषिता। 

  अस्मिन् मासे पञ्चदशतमदिनाङ्कपर्यन्तं होरायां पञ्चाशत् तः षष्टि पर्यन्तं कि मी शीघ्रतायां वातप्रवाहस्य च सम्भावना अस्ति। रविवासरपर्यन्तं केरल-कर्णाटक-लक्षद्वीपतीरेषु मत्स्यबन्धनं न कार्यमिति पर्यावरणविभागेन निगदितम्।

Wednesday, June 11, 2025

 फ्रञ्च् ओपण् - पुरुष टेन्नीस् 

कार्लोस् अल्करास् विजेता। 

चषकेन सह कार्लोस् अल्करासः। 

पारीस्>  पारीसे रोलाङ् गारेस् लानक्षेत्रे सम्पन्ने अत्युत्कृष्टे अन्तिमप्रतिद्वन्द्वे पुरुषाणां लानक्रीडायां [टेन्निस्] स्पेयिन् देशीयः कार्लोस् अल्करास् (२२ वयस्कः) विजेता अभवत्। २९ निमेषाधिक पञ्च होराः दीर्घिते प्रतिद्वन्द्वे  विश्वस्मिन् प्रथमश्रेण्युपस्थितम् इटलीयं यानिक् स्किन्नर् इत्यमुं  पराजित्य एव किरीटं धृतवान्। चतुर्थं 'ग्रान्ड् स्लाम्' किरीटमेव अल्करासेन प्राप्तम्।

 पण्यमहानौकायां विस्फोटः

समुद्रे पतितानि वस्तुधारकाणि तमिलनाट् - श्रीलङ्कयोः तीरं प्राप्तुं सम्भावना।

केरलतीरे आशङ्कायाः अवकाशः नास्तीति केन्द्रप्रशासनम्। 

अनन्तपुरी> आरबसमुद्रे सोमवासरे स्फोटनेन  प्रज्वलितायाः पण्यमहानौकायाः अग्निं प्रशमयितुम् एतावत्पर्यन्तं न शक्तम्। परन्तु अग्निना धूमेन च पूर्णायाः महानौकायाः समीपतः तटरक्षासेनायाः 'समुद्रप्रहरी', 'सचेतः' इति महानौकाद्वयस्य साह्येन अग्निशमनप्रवर्तनानि अनुवर्तन्ते। 

  एतदाभ्यन्तरे समुद्रे पतितानि वस्तुधारकाणि तमिलनाट् - श्रीलङ्कयोः तीरे अवक्षिप्तुं सम्भाव्यता विद्यते इति केन्द्रप्रशासनस्य अधिकारिभिरुक्तम्। केरलतीरे आशङ्कायाः अवकाशः नास्तीति तेषां मतम्। किन्तु महानौकायाः मारकविषांशाः समुद्रे लीनाः इत्यतः तादृशाघातस्य सम्भाव्यता न विगण्यते।

Tuesday, June 10, 2025

 आरबसमुद्रे पुनरपि महानौकादुर्घटना। 

केरले कण्णूर् समीपे पण्यमहानौका स्फोटनेन प्रज्वालिता। 


+ वस्तुधारकेषु अग्निप्रकाण्डः। + २२ वृत्तिकरेषु १८ जनाः रक्षिताः, ४ अदृष्टाः। 

कण्णूर्> अत्युग्रबोम्बस्फोटनशक्तियुक्तैः वस्तुभिः सह श्रीलङ्कायां कोलम्बो महानौकाश्रयात् मुम्बय्यां नव षेवा महानौकाश्रयं गम्यमाना 'एम् वि वान् हाय् ५०३' नामिका पण्यमहानौका आरबसमुद्रे अग्निप्रकाण्डाधीना अभवत्। कण्णूर् जनपदस्थात् अष़ीक्कल् मत्स्यबन्धननौकाश्रयात् ८१. ४९ कि मी दूरे सोमवासरे प्रभाते सार्धनववादने आसीदियं दुर्घटनायाः प्रारम्भः। 

  महानौकाधिष्ठितानि वस्तुधारकाणि प्रायेण सर्वाणि विस्फोट्य महदग्निप्रकाण्डः जातः। भारतस्य नौसेनया वायुसेनया च अग्निनिर्व्यापनप्रवर्तनानि कृतान्यपि फलप्राप्तिः नाभवत्। महानौका प्रायशः अग्निग्रस्ता जाता। 

  पण्यमहानौकायां वर्तितेषु २२ वृत्तिकरेषु  १८ जनाः तटरक्षासेनया परिरक्षिताः। ते मंगलापुरस्थे आतुरालये परिचर्यायां वर्तन्ते। द्वयोरवस्था कठिनतरा इति सूच्यते। समुद्रमुत्पतिताः चत्वारः वृत्तिकराः अदृष्टाः वर्तन्ते। 

 शुभांशोः अन्तरीक्षयात्रा श्वस्तनं परिवर्तिता। 


नवदिल्ली> भारतीयं शुभांशु शुक्लमभिव्याप्य चत्वारोपेतसंघस्य अन्तरीक्षयात्रा बुधवासरं परिवर्तिता। अद्य यात्राभविष्यतीति उद्घोषितमासीत्। किन्तु हीनपर्यावरणेन एकदिवसीयस्य विलम्बः भविष्यतीति इस्रो संस्थया निगदितम्। 

  आक्सियं ४ दौत्यस्य पेटकचालको भवति शुभांशुः। तं विना हंगरीयः टिगोर् कापुः, पोलण्टदेशीयः स्लावोस् उसन्की विनीस्की, कमान्डर् पदीयः पेग्गी विट्सण् इत्येते भवन्ति इतरे संघाङ्गाः।

Monday, June 9, 2025

 कोको गाफ् 'फ्रञ्च् ओपण्' विजेत्री। 

पुरस्कारेण सह कोको गाफ्।

पारीस्> 'फ्रञ्च् ओपण् टेन्निस्' क्रीडायां नूतनी  वीरा। गतदिने सम्पन्ने अन्तिमप्रतिद्वन्द्वे अमेरिकादेशस्य द्वितीय'सीड्' क्रीडिका कोको गाफ् बेलारसस्य प्रथम'सीड्' क्रीडिका आर्याना सबलेङ्का इत्येतां पराजित्य किरीटं धृतवती। 

  क्रीडायाः प्रथमचरणं आर्यानया क्लेशेन प्राप्तमपि अनन्तरचरणद्वयमपि कोको गाफेन विजितम्। त्रयाणामपि चरणानां परिणामः एवं - (६ - ७), (६-२), (६-४)।

 शुभांशु शुक्लः श्वः बहिराकाशं प्रति। 

शुभांशु शुक्लः, ड्रागण् पेटकं, तदूढ्यमानं फाल्कण् - ९ इति क्षेपणी च। 

फ्लोरिडा> चतुर्दशदिनात्मकस्य 'आक्सियोम् - ४' इति  बहिराकाशदौत्याय ड्रागण् नामकं यात्रायानं फ्लोरिडायां  केन्नडि बहिराकाशकेन्द्रे सिद्धमस्ति। भारतीयं शुभांशु शुक्लमभिव्याप्य चत्वारः यात्रिकाः परिशालनानि समाप्य दौत्याय सिद्धाः वर्तन्ते। कुजवासरे भारतसमयमनसृत्य सायं ५. ५२ वादने विक्षेपणं भविष्यति।

 राष्ट्रे कोविड्प्रकरणानि वर्धन्ते।


 

नवदिल्ली> अल्पकालीनविरामानन्तरं राष्ट्रे कोविड्प्रकरणानि वर्धन्ते। केन्द्रस्वास्थ्य-कल्याणमन्त्रालयस्य रविवासरस्य  गणनानुसारं षट् सहस्रं जनाः रोगावस्थायां वर्तन्ते। शनिवासरे ३७८ नूतनरोगिणः जाताः। रविवासरे ७५३ जनाः रोगमुक्तिं प्राप्ताः। 

  अधिकतमं प्रकरणानि केरले सन्ति। केरले इदानीं १९५० सजीवरोगिणः सन्ति।  गुजराते ८२२, वंगे ६९३, दिल्ल्यां ६८६, महाराष्ट्रे ५९५  - एवं प्रकार एव इतरराज्याणां कोविड्प्रकरणानि। 

  ह्यः आराष्ट्रं षट् जनाः कोविड्बाधया मृत्युमुपगताः। अनेन अस्मिन् वर्षे कोविड्रोगेण मृतानां संख्या ६५ अभवत्। बहुभूरिशः कोविड्प्रकरणानि तीव्रतारहितानीति मन्त्रालयेन सूचितम्। गृहपरिचरणमेव पर्याप्तम्। किन्तु अतीव जागरूकता आवश्यकीति राज्यानि निर्दिष्टानि।

 छत्तीसगढे पञ्च मावोवादिनः हताः। 

बीजपुरं> छत्तीसगढे बीजपुरं जनपदे इन्द्रावती राष्ट्रियोद्यानसमीपे विधत्ते प्रतिद्वन्द्वद्वये पञ्च मावोवादिनः सुरक्षासेनया निहताः। दिनत्रयं यावत् तत्र मावोवादि-सुरक्षासेना प्रतिद्वन्द्वः अनुवर्तमानः अस्ति। 

  दिनत्रयेण सप्त मावोवादिनः व्यापादिताः। सुधाकरः, भास्करः इति द्वौ मावोवादिनेतारौ अपि मृतेषु अन्तर्भवतः।

Sunday, June 8, 2025

 उपग्राधिष्ठिता अन्तर्जालसेवा  

'स्टार् लिङ्क्' संस्थायै भारते अनुज्ञा। 


ग्वालियोर्> इलोण मस्क् वर्यस्य उपग्रहाधिष्ठित अन्तर्जालीयश्रृङ्खला 'स्टार् लिङ्क्'  इत्यस्मै भारते सेवां कर्तुं टेलिकोम् मन्त्रालयस्य  अनुज्ञा लब्धा। अर्थनापत्रस्य समर्पणान्तरं विंशतिदिनाभ्यन्तरे 'परिशीलनस्पेक्ट्रं' अनुमोदयिष्यतीति अधिकृतैः निगदितम्। 

 भारते 'एयर् टेल्' इत्यस्य 'साट् वण् वेब्', जियो इत्येतयोरनन्तरम् अनुज्ञापत्रं लभमाना उपग्रहान्तर्जालसेवासंस्था भवति स्टार्लिङ्क् इति वार्तावितरणप्रक्षेपविभागस्य मन्त्री ज्योतिरादित्य सिन्ध्यः अवोचत्।

 चतसृणां  शास्त्रीयभाषाणां  विशिष्टकेन्द्राणि भविष्यन्ति।

नवदिल्ली> तेलुगु, ओडिया, मलयालं, कन्नडा इत्येतासां  शास्त्रीयभाषाणां समुन्नतिं लक्ष्यीकृत्य उत्कृष्टकेन्द्राणि [Center of Excellence] आरप्स्यन्ते इति केन्द्रसर्वकारेण प्रस्तुतम्। 

  गतदिने इन्दोरे सम्पन्ने शिक्षामन्त्रालयस्य  संसदीयसमितेः उपवेशने केन्द्र शिक्षामन्त्रालयस्य उन्नताधिकारिणा निगदितमेतत्। राष्ट्रे १३६९ मातृभाषाः विद्यन्ते ताः प्रत्यभिज्ञाताश्च। आगामिनि काले अध्ययनाय माध्यमभाषा प्राथमिकतया भारतीयभाषाः प्रादेशिकभाषाश्च भविष्यन्तीति मेलने अध्यक्षपदमलङ्कुर्वता धर्मेन्द्र प्रधानेन निगदितम्।

 बङ्गलुरु दुर्घटना

चत्वारः निगृहीताः।

मुख्यमन्त्रिणः राजनैतिककार्यदर्शिने स्थानचलनम्।

बङ्गलुरु> चिन्नस्वामि क्रीडाङ्कणे आर् सी बी क्रिकट् क्रीडाविजेतॄणां स्वीकरणसमारोहे  जनसम्मर्देन एकादश जनाः मृत्युमुपगताः इति प्रकरणे चत्वारः अधिकारिणः आरक्षकैः निगृहीताः। मुख्यमन्त्रिणः सिद्धरामय्यस्य राजनैतिककार्यदर्शी कोण्ग्रसीयसदस्यः के गोविन्दराजुः स्थानभ्रष्टः चाभवत्। 

  रोयल् चलञ्चेर्स् बङ्गलुरु [आर् सि बी] इत्यस्य 'क्रयविक्रय तथा आर्थिकविभागस्य [Marketing and Revenue] अधिकारी निखिल सोसाले, क्रीडाङ्कणे स्वीकरणसमारोहस्य संभारनिबन्धकसंस्थायाः [Event Management company] वरिष्ठप्रबन्धकः किरण् कुमारः, आर् सि बि दलस्य कार्यव्यवहारसहाध्यक्षः [Vice president of Business affairs] सुनिल् मात्यू, कार्यकर्ता सुमन्तः च निगृहीताः।

Saturday, June 7, 2025

 चेनाब सेतौ इतिहासप्रसूतिः। 

विश्वस्मिन् उच्चतमः 'रेल्मार्गस्थवक्रीकृतसेतुः' [Railway Arch bridge ] प्रधानमन्त्रिणा उद्घाटितः। 

चेनाब सेतुः। 

रियासि [जम्मु काश्मीरं]> जम्मु काश्मीरस्थे शिवालिकाधित्यकाः साक्षीकृत्य विश्वस्मिन् अत्युन्नततमः 'रेल्मार्गस्थवक्रीकृतसेतुः' [Railway Arch bridge ] - चेनाब सेतुः -  प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पितः। अनेन सेतुद्वारा प्रथमतया रेल् यानस्य सेवामारभत। 

  जम्मू क्षेत्रं काश्मीरं प्रति ऋजुना संयोज्यमाने द्वे वन्देभारतरेल् याने नरेन्द्रमोदी उद्ध्वजं चालयित्वा [Flag off] प्रारम्भं कृतवान्। 

  नूतनरेल् सेवया कत्र - श्रीनगरयोः यात्रासमयः अल्पीकरोति। वीथीद्वारा सप्त होराणां स्थाने रेल् द्वारा तिस्रः होराः पर्याप्ताः। 

  एकस्मिन् स्तम्भे षण्णवति लोहरज्जूनां वीर्ये स्थीयमानः राष्ट्रस्य प्रथमः लोहरज्ज्वधिष्ठानरेल्सेतुः [cable stay railway bridge ] अन्जि खाद नामकः अपि प्रधानमन्त्रिणा उद्घाटितः। जम्मु काश्मीरे उधंपुर - श्रीनगर- बारामुला रेल्मार्ग योजनायाः अंशो भवति चेनाब - अन्जी सेतुद्वयम्।

 आरबसमुद्रे निमग्नायां पण्यमहानौकायां प्राणहारी रासवस्तु अपि। 

अनन्तपुरी> सप्ताहात् पूर्वं साङ्केतिकदोषात् आरबसमुद्रे निमग्नायाः पण्यमहानौकायाः वस्तुधारकेषु भक्ष्ययोग्यानि वस्तुभ्यः आरभ्य प्राणनाशकं 'कात्स्यं कार्बैड्' इति रासवस्तु च अन्तर्भवन्तीति सूच्यते। महानौकाधिकारिभिः कस्टम्स् अधिकारिभ्यः दत्तायामावल्याम् इयं सूचना अस्ति। 

  षट्चत्वारिंशत् धारकेषु नारिकेलं, भल्लातकबीजं [cashewnut] इत्यादीनि विशिष्टभोज्यानि, सप्ताशीति वस्तुधारकेषु दारुफलकं, षष्टि पलास्तिकनिर्माणवस्तूनि, द्वादशसु वस्तुधारकेषु 'कात्स्यं कार्बैड्' इति अत्यन्तं मरणहेतुकं रासवस्तु चान्तर्भवन्तीति सूच्यते।

Friday, June 6, 2025

 कच्च् प्रदेशे हारप्पा संस्कृतेः पूर्वीयं जनवासकेन्द्रमधिगतम्। 

धोलावीरे सम्पन्नम् उद्खननम्। 

अहम्मदाबादः> गुजरात् राज्ये कच्च् प्रदेशे हारप्पा संस्कृतेः पञ्चसहस्रं वर्षेभ्यः पूर्वमेव जनाः वसन्ति स्म इत्यस्य प्रमाणानि गान्धिनगर् ऐ ऐ टि संस्थायाः गवेषकेभ्यः लब्धानि। 

  धोलावीर इति हारप्पीयनागरिकतायाः समीपं खादिर् इति स्थानात् लब्धानां शम्बूक - शंखाद्यानां कञ्चुकानां विशकलनेन अस्तीदं निगमनम्। कालनिर्णयाय Axlerator mass spectrometry इति रीतिरुपयुक्ता। 

  ऐ ऐ टि भौमशास्त्रविभागस्य पुरावस्तुशास्त्रकेन्द्रे [Archeological Science Center]  असोसियेट् प्रोफसर् पदीयस्य वि एन् प्रभाकरस्य नेतृत्वे आसीत् गवेषणं समायोजितम्।

 तत्काल चीटिकेभ्यः आधार् सत्यापनमनिवार्यम्। 

मुम्बई> रेल् यानयात्रिकाणां 'तत्काल्' विभागस्य चीटिकानाम् आरक्षणाय आधारपत्रस्य सत्यापनम् अनिवार्यं कारयति। जूण् मासान्ततः प्राबल्ये भविष्यति। 

  ये आधारपत्रसूचनाः स्पष्टीकुर्वन्ति तेषां दश निमिषेभ्यः पूर्वं चीटिकारक्षणं कर्तुं शक्यते।

Thursday, June 5, 2025

 उत्साहोत्सवः दुरन्तोपेतः अभवत्। 

ऐ पि एल् विजेतॄणां स्वीकरणकार्यक्रमे महान् जनसम्मर्दः।

एकादशानाम् अकालमृत्युः। उपपञ्चाशत् आहताः। 


बङ्गलुरु> नगरस्थे चिन्नस्वामि क्रीडाङ्कणे ह्यः ऐ पि एल् विजेत्रे आर् सि बि दलाय (रोयल् चलञ्चेर्स् बङ्गलुरु) समायोजितः स्वीकरणोत्सवः दुरन्तपूर्णः अभवत्। विराट कोहलिनमभिव्याप्य क्रिकट् क्रीडकान् सन्द्रष्टुं सम्मिलितानां जनानां मध्ये दुरापन्ने महत्सम्मर्दे एकादश जनाः मृत्युमुपगताः। उपपञ्चाशत् जनाः क्षताः। तेषु चतुर्पञ्चानामवस्था कठिनतरा इति सूच्यते। 

 अष्टादश संवत्सरेभ्यः परं लब्धः विजयः विजयपथसञ्चलनेन संकीर्तयितुमेव आर् सि बि दलाधिकारिभिः निश्चितम्। किन्तु तदर्थं क्रमीकरणाय आरक्षकपक्षतः अनुज्ञायां निषिद्धायां विजयोत्सवः चिन्नस्वामि क्रीडाङ्कणं प्रति परिवर्तितम्।

 जातिगणनायाः कालः निर्णीतः। 

जनसंख्यागणनेन सह २०२६ ओक्टोबर् प्रथमदिने समारप्स्यते; चरणद्वयं वर्तते।

नवदिल्ली> स्वतन्त्रभारतस्य प्रथमा जात्यधिष्ठितजनसंख्यागणना षट्विंशत्यधिक द्विसहस्रतमे वर्षे ओक्टोबर् प्रथमदिनाङ्के चरणद्वयेन दशाब्दजनसंख्यागणनया सह विधास्यतीति गृहमन्त्रालयेन निगदितम्। जम्मु-काश्मीरं, लडाकः, हिमाचलप्रदेशः- उत्तराखण्डराज्ययोः हिमपातप्रदेशाः इत्येतत्स्थानेषु सेप्टम्बर् त्रिंशे अर्धरात्रानन्तरं  प्रथमचरणत्वेन जनसंख्यागणनं सम्पत्स्यते। 

  द्वितीयसोपाने सप्तविंशत्यधिकद्विसहस्रतमे वर्षे [२०२७] मार्च् प्रथमदिनाङ्के प्रप्रत्युषसः राष्ट्रमखिलं जनसंख्यागणना समारप्स्यते। इयं प्रक्रिया २०२८ पर्यन्तमनुवर्तिष्यते। जनसंख्यागणनायाः विज्ञप्तिः जूण् षोडशे दिनाङ्के प्रसिद्धीकरिष्यति।

  भारते अन्तिमा जनसंख्यागणना २०११ तमे एव संवृत्ता। तदनुसृत्य एकविंशत्यधिक एककोटिः आसीत् भारतजनसंख्या। कोविड् कारणात् २०२१ तमवर्षे परिवर्तितगणनमेव आगामिवर्षे सम्पत्स्यमानमस्ति।