कच्च् प्रदेशे हारप्पा संस्कृतेः पूर्वीयं जनवासकेन्द्रमधिगतम्। धोलावीरे सम्पन्नम् उद्खननम्।
अहम्मदाबादः> गुजरात् राज्ये कच्च् प्रदेशे हारप्पा संस्कृतेः पञ्चसहस्रं वर्षेभ्यः पूर्वमेव जनाः वसन्ति स्म इत्यस्य प्रमाणानि गान्धिनगर् ऐ ऐ टि संस्थायाः गवेषकेभ्यः लब्धानि।
धोलावीर इति हारप्पीयनागरिकतायाः समीपं खादिर् इति स्थानात् लब्धानां शम्बूक - शंखाद्यानां कञ्चुकानां विशकलनेन अस्तीदं निगमनम्। कालनिर्णयाय Axlerator mass spectrometry इति रीतिरुपयुक्ता।
ऐ ऐ टि भौमशास्त्रविभागस्य पुरावस्तुशास्त्रकेन्द्रे [Archeological Science Center] असोसियेट् प्रोफसर् पदीयस्य वि एन् प्रभाकरस्य नेतृत्वे आसीत् गवेषणं समायोजितम्।