OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, June 8, 2025

 बङ्गलुरु दुर्घटना

चत्वारः निगृहीताः।

मुख्यमन्त्रिणः राजनैतिककार्यदर्शिने स्थानचलनम्।

बङ्गलुरु> चिन्नस्वामि क्रीडाङ्कणे आर् सी बी क्रिकट् क्रीडाविजेतॄणां स्वीकरणसमारोहे  जनसम्मर्देन एकादश जनाः मृत्युमुपगताः इति प्रकरणे चत्वारः अधिकारिणः आरक्षकैः निगृहीताः। मुख्यमन्त्रिणः सिद्धरामय्यस्य राजनैतिककार्यदर्शी कोण्ग्रसीयसदस्यः के गोविन्दराजुः स्थानभ्रष्टः चाभवत्। 

  रोयल् चलञ्चेर्स् बङ्गलुरु [आर् सि बी] इत्यस्य 'क्रयविक्रय तथा आर्थिकविभागस्य [Marketing and Revenue] अधिकारी निखिल सोसाले, क्रीडाङ्कणे स्वीरकणसमारोहस्य संभारनिबन्धकसंस्थायाः [Event Management company] वरिष्ठ प्रबन्धकः किरण् कुमारः, आर् सि बि दलस्य कार्यव्यवहारसहाध्यक्षः [Vice president of Business affairs] सुनिल् मात्यू, कार्यकर्ता सुमन्तः च निगृहीताः।