OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, June 7, 2025

 चेनाब सेतौ इतिहासप्रसूतिः। 

विश्वस्मिन् उच्चतमः 'रेल्मार्गस्थवक्रीकृतसेतुः' [Railway Arch bridge ] प्रधानमन्त्रिणा उद्घाटितः। 

चेनाब सेतुः। 

रियासि [जम्मु काश्मीरं]> जम्मु काश्मीरस्थे शिवालिकाधित्यकाः साक्षीकृत्य विश्वस्मिन् अत्युन्नततमः 'रेल्मार्गस्थवक्रीकृतसेतुः' [Railway Arch bridge ] - चेनाब सेतुः -  प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पितः। अनेन सेतुना प्रथमं रेल् यानं सेवामारभत। 

  जम्मू क्षेत्रं काश्मीरं प्रति ऋजुना संयोज्यमाने द्वे वन्देभारतरेल् याने नरेन्द्रमोदी उद्ध्वजं [Flag off] कृतवान्। 

  नूतनरेल् सेवया कत्र - श्रीनगरयोः यात्रासमयः अल्पीकरोति। वीथीद्वारा सप्त होराणां स्थाने रेल् द्वारा तिस्रः होराः पर्याप्ताः। 

  एकस्मिन् स्तम्भे षण्णवति लोहरज्जूनां वीर्ये स्थीयमानः राष्ट्रस्य प्रथमः लोहरज्ज्वधिष्ठानरेल्सेतुः [cable stay railway bridge ] अन्जि खाद नामकः अपि प्रधानमन्त्रिणा उद्घाटितः। जम्मु काश्मीरे उधंपुर - श्रीनगर- बारामुला रेल्मार्ग योजनायाः अंशो भवति चेनाब - अन्जी सेतुद्वयम्।