OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, December 24, 2015

तीव्रवादान् विरुध्य तीव्रवादिनेतु: कार् यानम् अग्निसात्करोत्।
गासियाबाद् - तीव्रवादान् विरुध्य  तीव्रवादि नेतु: दावूद् इब्राहिमस्य कार् यानम् अग्निसात्करोत्। हिन्दुमहासभायाः प्रवर्तकाः गासियाबादस्य इन्दिरा पुरा देशे जनानां पुरतः कारयानम् अग्निसात् कृत्वा तेषां प्रतिषेधः ज्ञापितवन्तः। दावूदस्य डि नाम संस्थायाः भीषणिमगणयन् एव प्रतिषेधः कृतवन्तः। 

क्रिस्तुमस् पर्वणः निरोधः 
  
ब्रूणे - अस्य राष्ट्रस्य नेता सुल्त्तान् हसनल् बोलक्कय्या एव क्रिस्तुमस् आघोषाय निरोधानां कृतवान् जानुवरी मासस्य 16 दिने  दक्षिणपूर्व एष्यायां बार्णियो द्वीपे विद्यमानं राष्ट्रमेतत्।
-
 गतवर्षेषु अपि एतादृश निरोधः आसीत्। 4,20,000 जनाः अत्र वसन्ति्। तस्मिन् प्रतिशतं द्वात्रिंशत् जनाः विविधधर्मावलम्बिनः सन्ति

 भारत-पाक् विदेशविभाग सचिवानां चर्चा

नवदिल्ली-भारत-पाक् देशयोः विदेशविभागसचिवानां उभयाभिमुखं जानुवरीमासस्य 16 दिने भविष्यति। पाक्क् प्रधानमन्त्रिणः विदेशविभागस्य निदेशकेन सर्ताज् असीसेन निर्दिष्टा इयं चर्चा इस्लामबादे प्रचलिष्यते। विदेशकार्यमन्त्रिण्या: सुषमा स्वराजस्य पाक्क् प्रथानमन्त्रिणा सह सम्पन्ने मेलने एवायं निश्चयः जातः


 बालनीतिविधेयकं राज्यसभया अङ्गीकृतम्।

नवदिल्ली - गुरुतरापराधान् क्रियमाणाः १६-१८ मध्ये वयस्काः कुमारकाः प्रौढा इव नैतिकविचारविधेयाः भवितुं सप्तसंवत्सरपर्यन्तं कारागृहवासं च व्यस्थापयितुम् उद्दिष्टं  बालनीतिभेदगतिविधेयकं राज्यसभया अपि अङ्गीकृतम्।पूर्वमेव लोकसभया अङ्गीकृतमिदं विधेयकं राष्ट्रपतेः हस्ताक्षरविन्यासेन नियमः भविष्यति।

नरेन्द्रमोदी मोस्को प्राप्तः।
Image for the news resultमोस्को - दिनद्वयात्मकरष्यासन्दर्शनाय भारतप्रधानमन्त्री नरेन्द्रमोदी मोस्कोनगरं प्राप्तवान्। तत्र नुक्कावो-२ विमाननिलये  मोदिवर्यः रष्यासैन्यस्य " गार्ड् आफ ओणर्" विन्यासेन स्वीकृतः।राष्ट्रपतिः व्लादिमिर् पुतिन् महोदयः रात्रिभोजनेन सह सत्कारं समर्पितवान्। अद्य द्वावपि राष्ट्रनेतारौ उभयपक्षचर्चां कृत्वा आणवोर्जः राष्ट्ररक्षा इन्धनम् इत्यादिषु मण्डलेषु अनुबद्धेषु हस्ताक्षरं करिष्यतः।ततः मोदीवर्यः रष्यस्थान् भारतवंशजान् अभिसंबुद्धिं करिष्यति।