OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 27, 2015

मोदिनः अप्रतीक्षितं पाक्-सन्दर्शनम्
शुभप्रतिक्षायाः भूमिका सञ्जाता।
 भारत-पाक् विदेशविभाग सचिवानां उभयाभिमुखं जानुवरीमासस्य 15 दिने भविष्यति
नवदिल्ली - भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः अप्रतीक्षितेन पाकिस्तानसन्दर्शनेन राष्ट्रयोर्मध्ये  शुभप्रतीक्षा सञ्जाता। विदेशाविभागकर्यकार्यदर्शिनो: मेलन पर्यालोचनं जनुवरि १५ दिनाङ्के इस्लामबादनगरे स्यात्। ततः समग्रचर्चायाः दिनाङ्कादिकं विज्ञापयिष्यति। मोदिनः रष्यासन्दर्शनं समाप्य प्रत्यागमनवेलायामेव पाक्-सन्दर्शनं जवेन निश्चितम्। लाहोर् विमाननिलये पाकिस्तानस्य प्रधानमन्त्री नवास् षरीफः मोदिनं स्वीकृतवान्। ततः एकघण्डां यावत् चर्चा कृता। रात्रावेव मोदिवर्यः दिल्लीं प्राप्तवान्। 


शर्माजी पुरस्कारेण  श्री टी के सन्तोष् कुमार: सम्मानितः
तोटुपुषा (केरलम्)- संस्कृतभाषा प्रचरणमण्डले नूतनाविष्कारैः प्रवर्तमानायाः संस्कृतभारत्याः केरलविभागेन विश्वसंस्कृतप्रतिष्ठानेन संस्कृताध्यापकानां कृते प्रतिवर्षम् शर्माजी पुरस्कारः दीयते । विद्यालयाध्यापनेन साकं सामाजिकप्ररिवर्तनाय अपि कार्यं कुर्वतां संस्कृताध्यापकानां कृते  एव अयं पुरस्कारः दीयते । अस्य वर्षस्य शर्माजी पुरस्काराय चितःटी. के सन्तोष्कुमार: केरल संस्कृताध्यापक फेडरेषन् कार्यदर्शी तथा कोषिक्कोड् नन्मण्डा करुणारां यु पि विद्यालयस्य संस्कृताध्यापकश्च भवति।
विश्वसंस्कृतप्रतिष्ठानस्य रक्षाधिकारी तथा अन्तर्देशीय संस्कृत कण्सल्टन्ट   पण्डितरत्‍नं डो.जी. गङ्गाधरन् नायर् महोदयः श्री.टी. के. सन्तोष्कुमाराय पुरस्कारं ददाति। १०००१ रूप्यकाणि प्रशस्तिफलकम् च अस्मिन् पुरस्कारे अन्तर्भवति । पुरस्कार: संस्कृत अद्यापक फ़ेटरेशन् संस्थाया: लब्धः अङ्गीकारमिति मन्ये इति संतोष् वर्यः प्रत्यवदत् ।
संस्कृतस्य कृते निस्वार्थ सेवनम् कृतवानयं इति गङ्गाधर महाभागेन उक्तम् ।