OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 25, 2016

पुरस्कारं प्रतिसमर्प्य कृषकाः।

नागपूर्> महाराष्ट्रराज्ये कृषकाणाम् आत्माहुतिवर्धने प्रतिषिध्य  विदर्भास्वदेशीयौ कृषकौ स्वकीयौ कृषिभूषण् पुरस्कारौ प्रतिसमर्पितवन्तौ। २०१५ तमे वत्सरे सहस्रं कृषकाः ऋणबाध्यतया आत्माहुतिं कृतवन्तः आसन्। आत्माहुतिप्रतिरोधाय सर्वकारेण किमपि न क्रियते इत्यारोप्य एव पुरस्कारप्रतिसमर्पणम्।

केरळेषु नदी संरक्षणाय अष्टकम्।

मलप्पुरम् > जनुवरिमासस्य 26 तमे दिने तिरुन्नावायायां भविष्यमाणे मामाङ्क-कार्यक्रमे अष्टकस्यास्य प्रथममालापनं भविष्यति।
केरलेषु विद्यमानासु नदीषु दीर्धतमा भवति इयं भारतप्पुष़ा अथवा निळा नदी। अस्याः नद्याः तीरे एव प्रसिद्धं मामाङ्कमहोत्सवं संञ्चालयन्ति स्म। अस्मिन् वर्षे आयोज्यमाने मामाङ्क स्मारकमेलने  आष़्वाञ्चेरि तम्प्राक्कल्, सामूतिरि राजः, वल्लुवनाट् राजः , अक्कित्तं इत्येते च सभामञ्चम् अलङ्करिष्यन्ति। तेषां सन्निध्ये सङ्गीतात्मकतया निळाष्टकस्य आलपनं भविष्यति।
दानीं निळा नद्याः अवस्था दयनीया। जलप्रवाहः अतिन्यूनः च। नदी संरक्षण मुद्दिश्य, निला नद्याः पवित्राम् आध्यात्मिकीं विशुद्धिं च प्रकीर्त्य निलाष्टकं रचितम्। निलाविचारवेदिः इत्याख्यायाः समितेः नेतृत्वे एव अष्टकस्य रचनाऽभवत्। पि. रमेश् नम्पीशन्  एव निलाष्टकस्य रचयिता। कविरयं चालियपुरं सर्वकारीयोच्चविद्यालये संस्कृताध्यापकः। संस्कृते एम्. ए, बि एड्ड् समाप्य संस्कृतपत्रकारितायाम् एम् फिल् अपि अनेन सम्पादितम्। संस्कृतभारत्याः बिहारः, तमिलनाट्, प्रान्तयोः दायित्वमपि अस्मिन् निरूढमासीत्। नदी संरक्षणीया  इति आशयप्रचरणमुद्दिश्य एव इदं गानरचना अनेन कविना कृता वर्तते।