संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन् 
कविकुलगुरु कालिदास-विश्वविद्यालयः महाराष्ट्रम्।
|  | 
| सम्भाषणचित्रकारः - श्री हरिः पि | 
नमांसि, चतु:शतात् वर्षेभ्य: पूर्वं विश्वे 5000 भाषा: आसन्। इदानीम् उपद्विसहस्रा: सन्ति। व्यवहार: परित्यक्त: इत्यत: 3000 भाषा: विनष्टा:। व्यवहार-ह्रासादेव सहस्राधिका: भाषा: विनाशपथे सन्ति। संस्कृतभाषा नित्य-व्यवहारस्य भाषा करणीया। लक्षश: जनानां परस्पर-व्यवहार:, गृहव्यवहार:, विद्यालयव्यवहार:, कार्यालयव्यवहार:, सामाजिकव्यवहार: च संस्कृतेन भवेत्। संस्कृतस्य पुन: व्यवहारभाषाकरणमेव संस्कृतस्य पुन: भाषात्वसम्पादनम्। किञ्च एतद् कार्यं संस्कृतसेवायां मूलभूतं कार्यं, प्राणभूतं  च कार्यम्। मित्राणि, एतस्मै प्राणभूताय कार्याय अस्माकं जीवनं समर्पयाम:।
 



