OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 25, 2019

गुज्रराज्यस्थे वाणिज्यभवनसमुच्चये अग्निप्रकाण्डः - २० छात्राः मृताः। 
भवनसमुच्चये अग्निबाधा। 

 सूरट् >  गुजरात् राज्ये सूरत् नगरस्थे सर्थाणा प्रदेशे विद्यमाने तक्षशिला आर्केड्  नामके भवनसमुच्चये दुरापादितेन अग्निप्रकाण्डेन तत्रस्थाः  छात्रपरिशीलनकेन्द्रीयाः २० कौमारच्छात्राः मृत्युमुपगताः। गतदिने अपराह्ने चतुर्भूमिकात्मकस्य भवनसमुच्चयस्य द्वितीयभूमिके आसीत् अग्निबाधा सञ्जाता। उपरितले वर्तितात् छात्रपरिशीलनकेन्द्रात् छात्राः प्राणरक्षार्थं तदुपरि धाविताः अपि धूमतपादिभिः उपरिष्ठात् अधः कूर्दित्वा तथा तापाग्रस्तेन च छात्राः अपमृत्युमुपगताः।
  अग्निशमनसेनायाः १० एककानि आगत्य रक्षाप्रवर्तनानि अकुर्वन्। भवनसमुच्चयस्य स्वामिनं तथा कार्यकर्तृन् च विरुध्य व्यवहारः कृतः।