OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 23, 2019

लोकसभानिर्वाचनं - मतगणना अनुवर्तते। राष्ट्रे पुनरपि मोदीशासनम्।
 नवदिल्ली > जनहितं मोदीशासनेन सहेति मतगणनासूचना। मतगणनाफलं बहिरागतेषु ५४२ मण्डलेषु भाजपादलनेतृत्वे विद्यमानं एन् डि ए सख्यं ३३७ मण्डलेषु अग्रे गच्छति। कोण्ग्रस्दलस्य नेतृत्वमापद्यमानं यू पि ए सख्यं ९० मण्डलेषु पुरोगच्छति। 
  दक्षिणभारतं विहाय आराष्ट्रं नरेन्द्रमोदिप्रभावः द्रष्टुं शक्यते। दक्षिणभारते कर्णाटके बि जे पि प्रभावः अस्ति। केरले तु कोण्ग्रस् नेतृत्वे विद्यमानं यू डिएफ् दलं असाधारणं प्रभावं प्रदर्शयति। २० मण्डलेषु १९ मण्डलेष्वपि यू डि एफ् स्थानाशिनः अग्रे गच्छन्ति।