OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 9, 2019

श्रीशङ्करजन्मदिनाघोषः - अद्य कालट्यां महापरिक्रमः सन्यासिसङ्गमश्च। 
कालटी >  अद्वैतवेदान्तसंस्थापकस्य श्रीशङ्कराचार्यस्य जन्मदिनोत्सवः जन्मग्रामे कालट्यामद्य सम्पद्यते। महापरिक्रमः , पूर्णानदीपूजा , नक्रघट्टस्नानं, सन्यासिसङ्गमः इत्येतैः कार्यक्रमैः जन्मदिनाघोषः आयोजयिष्यते। 
  आदिशङ्करकीर्तिस्तम्भमण्डपे प्रभाते दशवादने सन्यासिसङ्गमः सम्पद्यते। भारतस्य नानाराज्येभ्यः शतशः सन्यासिनः भागभाजः भवन्ति। सायं सम्पद्यमाने महापरिक्रमे सन्यासिनः सांस्कृतिकनेतारः सहस्रशः बहुजनाश्च भागं कुर्वन्ति। 
  श्रृङगेरीमठस्य अधीनतायां वर्तमाने आदिशङ्करजन्मभूमिमन्दिरे मन्दिराचारान् विहाय शास्त्रार्थविद्वत्सभा , रथोत्सवः इत्यादयः आयोज्यमानाः सन्ति। कुलदेवतामन्दिरे श्रीकृष्णमन्दिरे सायं षट्वादने ३२ मातृजनान् 'मातृपञ्चकस्तोत्रा'लापनेन  आद्रियन्ते।