OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 30, 2019

नवभारताय मोदिनः द्वितीयः 'राजसूयः' अद्य आरभते। 
नवदिल्ली >  नवभारतनिर्माणं वाग्दानं कुर्वत् नरेन्द्रमोदिनः नेतृत्वे एन् डि ए सख्यस्य द्वितीयं मन्त्रिमण्डलं अद्य सायं सप्तवादने सत्यशपथं करोति। राष्ट्रपतिभवनस्य प्राङ्कणे राष्ट्रपतिः रामनाथकोविन्दः प्रधानमन्त्रिणं इतरमन्त्रिणश्च शपथवाक्यं प्रतिज्ञापयिष्यति। भारतस्य २२तमं मन्त्रिमण्डलमेव अद्य शासनायते। 
  गतमन्त्रिसभायां वर्तिताः प्रमुखाः प्रायशः सर्वे अस्यामनुवर्तिष्यते इति सूच्यते। विदेशराष्ट्रनेतारः, पक्ष-विपक्षाणां राजनैतिकदलनेतारश्च कार्यक्रमे$स्मिन् भागभागित्वं करिष्यन्ति।