OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 20, 2019

अन्तमानद्वीपसमूहे वर्षा समारब्धा।  
Photo: Zee News
   नवदिल्ली> दक्षिणपश्चिम वर्षाकालः अन्तमान् निक्कोबार् द्वीपसमूहे समारब्धः इति वातावरणनिरीक्षण केन्द्रेण निगदितम्।  जूण् मासस्य षष्टदिनाङ्गे  वर्षा केरलराज्यं प्राप्स्यते। ग्रीष्मकालस्य वृष्टिपाते आराष्ट्रं प्रतिशतं द्वाविंशति भागस्य न्यूनता आसीत्। मार्च् मासतः मेय् पञ्चदश पर्यन्तं उपाशीति (७५.९) मिल्ली मात्रा (मिलितमात्रा - Millimetre) आसीत् वृष्टिमानम्। सामान्यतया षण्णवति दशांशम् अष्ट (९६.८) मिलितमात्रा आसीत्‌ पूर्वकालवृष्टिपातः। कार्षिकमण्डलस्य भविष्यकालोत्पादने ग्रीष्मकालीनवृष्टिपातस्य न्यूनता  बाधा भविष्यति।