OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 17, 2019

वङ्गराज्ये घोषप्रचारणम् दिनैकस्मात् पूर्वमेव समापितम् ; निर्वाचनं रविवासरे। 
 निर्वाचनायोगस्य असाधारणः पदक्षेपः। तृणमूल-भाजपासङ्घर्षः हेतुः। 
कोल्कोत्ता >  पश्चिमवङ्गराज्ये अनुस्यूतमनुवर्तमानस्य राजनैतिकसंघट्टनस्य परस्पराक्रमणस्य च आधारे तत्र प्रचाल्यमानस्य निर्वाचनघोषप्रचारणम् आयोगस्य आदेशेन ह्यः समाप्तम्। नो चेत् अद्य समापितव्यमासीत्। वंगे सप्तमे तथा अन्तिमे सोपाने ९ मण्डलेषु रविवासरे निर्वाचनं सम्पत्स्यते। 
   कोल्कोत्तायां मङ्गलवासरे सम्पन्नायां भाजपाध्यक्षस्य वीथीप्रदर्शनवेलायां भाजपा-तृणमूल् अनुयायिनां सङ्घर्षः जातः। तदा सामाजिकपरिष्कर्तुः तथा तत्त्वचिन्तकस्य ईश्वरचन्द्रविद्यासागरस्य प्रतिमा भञ्जिता। तदनुबन्ध्य राज्ये सर्वत्र सङ्घर्षः सञ्जातः। अत एव राष्ट्रनीतिशासनस्य ३२४तम विभागस्य आधारे घोषप्रचारणणं एकदिनात् पूर्वमेव समापयितव्यमिति आयोगस्य अपूर्वः व्यवहारः। 
  तदनन्तरं तृणमूल - भा ज पादयः राजनैतिकदलाः परस्परारोपप्रत्यारोपेषु संलग्नाः भवन्ति।