OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 6, 2019

रष्यात: विमानवेध संविधानं क्रेतुं पाकिस्तानेन यतते। 

 नवदिल्ली > बालाकोट् आक्रमणवत् पुनरपि भारतम् आक्रमणं करिष्यति इति भीत्या विमानवेध-संविधानं क्रेतुं इच्छति पाकिस्तानः। रष्याराष्ट्रात् पान्टसिर् मिसैल् संविधानं क्रेतुं शक्यते वा न वा इति पाकिस्तानः इदानीं चिन्तयति।  
   प्रतिध्वनिग्राहिम्   (RADAR)  उपकरणस्य साहायेन लक्ष्यं निर्णिय  आक्रमणं  कर्तुं शक्यते इत्येतत् एव पान्टसिर् मिसैल् इति विमानवेध उपकरणस्य सविशेषता। एतस्य क्रीणनसंबन्धितया चर्चां कर्तुं प्रतिनिधिसंघम् मोस्कों प्रति प्रेषयितुं पाकिस्तानः यतते । रष्या तु   प्रतिरोध प्रवर्तनेषु सदा भारतस्य सहवर्ती भवति। पाकिस्तानेन सह क्रियमाणं  प्रतिरोधसंबन्धिं सन्धिम् अधिकृत्य भारतेन तस्य प्रतिषेधं संसूचितम्।