OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, May 8, 2019

नाट्यसत्रम्। संस्कृतचलनचित्रशिल्पशाला ।
-डा.अभिलष् जे
     तृश्शूर्> संस्कृताध्यापकः परिस्थिति कार्यकर्ता च आसीत् श्री अशोकन् पुरनाट्टुकरा महोदयः। तस्य स्मरणार्थं लैव् सान्स्क्रिट् संस्थायाः नेतृत्वे संस्कृतचलनचित्रशिल्पशाला प्रचलिष्यति।मेय् नवम्यां तृश्शूर् साहित्याक्काटमी चङ्मबुषा बृहत्प्रकोष्ठे प्रातः सार्धनववादने शिल्पशाला आरप्स्यते।कथा पटकथा संभाषणं निदेशनं इत्यादि क्षेत्रेषु विद्वांसः कक्ष्यां नेष्यन्ति।कालटी संस्कृतविश्वविद्यालयस्य तिरूर् प्रादेशिक केन्द्रस्य तथा भारतमुद्रा संस्कृतपत्रिकायाः च साहाय्येन एषा शिल्पशाला भविष्यति। तिरूर् प्रादेशिक केन्द्रस्य साहित्यविभागाध्यक्षा डा. सि के जयन्ती  शिल्पशालायाः उद्घाटनं करिष्यति। चलनचित्र निदेशकः मोहरली पोयिलुङ्गल् इस्मयिल् मुख्यातिथिः भविष्यति।  डा.महेष् बाबु एस् एन् शिल्पशालायाः नेतृत्वं करिष्यति। उच्चतर माध्यमिक छात्राणां विशेष गणना भविष्यति।