OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 19, 2019

शैक्षिकयोजनापरिष्करणाय एन् सि ई आर् टी। 
नवदिल्ली > राष्ट्रिय शैक्षिकपरियोजनायाः परिप्रेक्ष्यपरिष्करणार्थं देशीय शैक्षिकपरिशीलन अनुसन्धानसमित्या [एन् सि ई आर् टी] निश्चितम्। १४ संवत्सरेभ्यः परमेव एतादृशं परिष्करणम्। तदर्थं प्रारम्भपदक्षेपाः आरब्धा इति एन् सि ई आर् टी संस्थायाः निदेशकः  हृषीकेश् सेनापतिः अब्रवीत्। 
   छात्राः, अध्यापकाः, रक्षितारः इत्यादिभ्यः विविधेभ्यः मण्डलेभ्यः ७२,००० जनेभ्यः लक्षाधिकाः निर्देशाः समाहृताः।   नूतनीं समितिं  रूपीकृत्य निर्देशानां विशकलनं कृत्वा परिष्कारः करिष्यते। एतदर्थं एकसंवत्सरम् आवश्यकम्। 
  अध्यापनस्य उत्कृष्टतां वर्धयितुमेवास्य लक्ष्यः। संवत्सरान्ते ४२ लक्षमध्यापकानां कृते परिशीलनं दातुं संस्थायाः परियोजना अस्ति।