OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 2, 2019

यु एस् उपरोधकारणेन इरानतः तैलेन्धनानयनं निर्वर्तयितुं भारतेन आलोच्यते।
   नवदिल्ली> इरानतः तैलेन्धनानयनं भारतम् अन्ये सहकारिराष्ट्राणि च गुरुवासरेण अवस्यते इत्यस्ति नूतनम् आवेदनम्। इरानेन सह अनुवर्त्यमाणः इन्धनव्यापारस्य अन्त्यम् कर्तुं सुहृद्राष्ट्रेभ्यः अमेरिक्कया दत्तः समयः अवस्यते इति कारणेन भवति अयं प्रक्रमः।
    भारतेन अधिकतया तैलेन्धनं स्वीक्रियमाणेषु राष्ट्रेषु त्रितीय स्थाने वर्तते इरान् राष्ट्रम्। ततः इन्धनानयनं स्तगयति इति मूल्यवर्धनस्य कारणं भविष्यति। विगते नवम्बर् मासे इरानेन सह प्रचलितः आणवायुधसंबन्ध संयुक्त मर्यादावाग्दानतः प्रतिनिवृत्तेन अमेरिक्केन इरानस्योपरि व्यपारोपरोधः प्रख्यापितः। अनन्तरं सुहृद्राष्ट्रान् प्रति इरानेन सह क्रियमाणः सर्वविधव्यापाराणाम्  अन्त्यं कर्तुं  प्रार्थितम्।