OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 24, 2019

लोकसभानिर्वाचनं - केरले यू डि एफ् दलस्य अत्युज्वलविजयः। (१९/२०)    
वामपक्षदलस्य उन्मूलनाशः। कमलं न विकसितम् । 
 कोच्ची >  लोकसभानिर्वाचनस्य मतगणनायाम् अन्तिमविधिः कोण्ग्रस् दलनेतृत्वे विद्यमानस्य यू डि एफ् सख्यस्यानुकूलः। सि पि एम् दलनेतृत्वोपेतस्य वामपक्षजनाधिपत्यसख्यस्य [एल् डि एफ्] शासनपक्षस्य अतिदयनीयः पराजयः। केरलभूमौ कमलविकासाय बि जे पि दलस्य कठिनप्रयत्न अपि विफलो जातः। २० मण्डलेषु १९ सु अपि यू डि एफ् स्थानाशिनः विजयीभूताः। एकस्मिन् मण्डले एल् डि एफ् दलस्य आश्वासजयः। 
  कोण्ग्रस् दलाध्यक्षस्य राहुल् गान्धिनः स्थानाशित्वेन देशीयश्रद्धामावहदासीत् केरलम्। वयनाट् मण्डले राज्यचरितस्य सर्वोत्कृष्टभूयिष्ठसंख्यकेन राहुल् गान्धी विजितः। वामदलस्थानाशिनः ४,३१,७७० मतदानानां भूरिसंख्या। फलप्रवचनेन विजयप्रतीक्षामापन्ने तिरुवनंतपुरं मण्डले बिजेपी स्थानाशी कुम्मनं राजशेखरः द्वितीयस्थानेन तृप्तः अभवत्। तत्र शशि तरूरः [कोण्ग्रस्] विजितवान्। कठिनया त्रिकोणप्रतियोगितया भाजपादलस्य विजयप्रतीक्षया   सविशेषश्रद्धामापादितेषु मण्डलान्तरेषु तृतीयस्थानमगच्छन् बि जे पी स्थानाशिनः।