OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 2, 2019

मसूद् अस्हरः आगोलभीकर इति यू एन् प्रख्यापनम्। 

युणैटड् नेषन्स् >  ऐक्यराष्ट्रसभायां भारतस्य चिरकालापेक्षा साधिता। 'जैषे मुहम्मद्' नामिकायाः आतङ्कवादिसंस्थायाः नेता मसूद् अस्हरः आगोलभीकररूपेण यू एन् रक्षासमित्या  प्रख्यापितः। तत्रस्थः भारतस्य स्थिरः प्रतिनिधिः सयिद् अक्बरुद्दीन् वार्तामिमां प्रकाशितवान्।
  चिरकालेन यू एन् रक्षासमित्यां मसूदस्य आगोलभीकरप्रख्यापनाय भारतं यतते स्म। किन्तु समित्यामङ्गराष्ट्रेषु अन्यतमस्य चीनस्य प्रातिकूल्येन अपेक्षा न सफला जाता। पुल्वामा भीकराक्रमणानन्तरम् अन्ताराष्ट्रतलेषु भारतं स्वप्रार्थनां  शक्तमकरोत्। अन्ते चीनेन अपि रक्षासमित्यां भारताय अभियोगः कृतः। 
  भारतस्य नयतन्त्रविजयरूपेण अयं पदक्षेपः परिगण्यते।