OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, April 17, 2022

स्वदेशीयोत्पन्नानाम् उपयोगं करोतु इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी।


अहम्मदाबाद्> जनैः आगामिनि पञ्चविंशतिसंवत्सरं यावत् स्वदेशीयोत्पन्नानि उपयुज्यन्ते चेत् राष्ट्रे कर्मराहित्यं न भविष्यति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना न्यगादीत्। हनूमद्जयन्ति दिने गुजरात्ते मोर्ब्यां १०८ पादमितोन्नतायाः हनूमद्प्रतिमायाः अनाच्छादनं कुर्वन् भाषमाणः आसीत् सः। अस्माकं गृहेषु अस्माकं जनैः निर्मितानि वस्तूनि उपयोक्तव्यानि। विदेशनिर्मितवस्तूनि उपयुज्यते चेत् एतादृश कठिननिर्मणप्रयत्नस्य का आवश्यकता इति वयं न जानीमः। अतः स्वदेशीयोत्पन्नानि क्रेतुं जनान् प्रेरयन्तु इति प्रधानमन्त्रिणा अभ्यर्थितम् ।