OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, April 3, 2022

 श्रीलङ्कायाम् आपत्कालीनशासनव्यवस्था। 

कोलम्बो> तीव्रेणार्थिकप्रतिसन्धिना क्लेशमनुभवत्यां श्रीलङ्कायां जनानां प्रक्षोभं प्रतिरोद्धुं शुक्रवासरस्य अर्धरात्रादारभ्य आराष्ट्रम् आपत्कालीनशासनव्यवस्था विधत्ता। शनिवासरस्य सायं षड्वादनतः ३६ होरात्मकं 'कर्फ्यू'नामकं प्रवर्तननिरोधनं च विहितम्। राष्ट्रपतेः गोताबय राजपक्सेवर्यस्य गृहस्य पुरतः गतदिने संवृत्तः प्रतिषेधः अक्रमासक्तः अभवदित्यनेन हेतुना एव आपत्कालिका व्यवस्था विहिता। 

   प्रत्युत अद्य राष्ट्रे सर्वत्र 'अरबवसन्त' प्रक्षोभसदृशानि प्रतिषेधप्रवर्तनानि आयोजयितुं आह्वानं कृतम्। अनेनैव कारणेनैव सोमवासरे प्रभातपर्यन्तं  कर्फ्यू विहितम्। 

  कोलम्बोमध्ये राष्ट्रस्य विविधस्थानेषु च सैनिकबलं विन्यस्तम्। तन्त्रप्रधानानि स्थानानि  सुरक्षया प्रबलीकृतानि।