OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, April 19, 2022

 नेप्पाले अपि आर्थिकसमस्या ।

काठ्मण्डुः> श्रीलङ्कां पाकिस्थानं चानुगम्य भारतस्य इतरं प्रातिवेशिकराष्ट्रं नेप्पालमपि आर्थिकसमस्याम् अभिमुखीकरोति। राष्ट्रस्य विदेशद्रव्यस्य संरक्षितसञ्चयः सप्तभिर्मासैः १६ प्रतिशतं न्यूनीभूतः। १. १७ लक्षं कोटि नेप्पालरूप्यकाणि अवशिष्टानीति आर्थिकविचक्षणैः परिकल्प्यते। 

  इन्धनमभिव्याप्य प्रायेण सर्वाण्यवश्यवस्तूनि भारतादेव आनयनं कुरुते नेप्पालाय माससप्तकस्य व्ययमेव साध्यते। कोविड्महामारिकारणतः  एव   नेप्पालस्य आर्थिकक्लेशः आरब्धः। विनोदसञ्चारेण लभ्यमानं धनं प्रवासिभिः प्रेषितद्रव्याणि च राष्ट्रस्य मुख्यः आयमार्गः।