OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 28, 2022

कोविड् वर्धनं - केरलेऽपि मुखावरकम् अवश्यं कृतम्। 

अनन्तपुरी> केरलराज्ये अपि कोविड्प्रकरणानि वर्धन्ते इत्यतः सामान्यस्थानेषु सङ्घेषु च मुखावरकम् अवश्यं कारितम्। ये मुखावरकं न धरन्ति तेभ्यः ५०० रूप्यकाणाम् आर्थिकदण्डम्  विहितम्

  आराष्ट्रं कोविड्बाधितानां संख्या उद्गच्छति इत्यस्मात् केन्द्रसर्वकारेण कोविडनुशासने विधत्तानि लाघवानि निरस्तुं निर्देशः दत्तः आसीत्। तदनुसारमेव केरलस्य प्रक्रमः। 

   केरले गतदिने ३५० जनाः कोविड्बाधिताः अभवन्। आराष्ट्रं नूतनाः कोविड्बाधिताः ३३०३ अभवन्। ३९ मरणानि च।