OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 2, 2022

गुरुरेव गरीयः

मम दिग्दर्शकः, गुरुः, सर्वस्वम्... श्री. प्रोफ. आर्. वासुदेवन् पोट्टी। 


-डा. मनोजः बी. (भावना)


   प्री-डिग्रीं समाप्य मया निर्णीतं यत् इतःपरं मम अर्हतानुगुणं यत्किमपि कर्म करोमीति। यतो हि यावदध्येतव्यं तावदधीतम् इत्यासीत्  मूर्खस्य मम विचारः। किन्तु मम पितुः अभिलाषः उच्चस्तरीयः आसीत्। सः साधारणः कश्चन मानवः आसीत् यः प्रतिदिनं अष्टादश किलोमीट्टर् पर्यन्तं द्विचक्रिकां चालयित्वा कर्म कृत्वा अस्माकं कुटुम्बं संरक्षति स्म। स्वस्य कार्याय कदापि त्रिचक्रिकया यात्रां न कृतवान् सः एकस्मिन् दिने त्रिचक्रिकया गृहमागत्य मां अवदत् – शीघ्रं सज्जो भव। तव कृते श्रीशङ्कराचार्यसंस्कृत-सर्वकलाशालायां बी. ए. अध्ययनाय अवसरः प्राप्यते इति। किंकर्तव्यतामूढः अभवम् अहम्। यतो हि तावत् पर्यन्तं संस्कृतम् इति पदं केवलं श्रुतवानहम् आकाशवाण्यां यदा संस्कृतवार्ताप्रसारः भवति तदा। किन्तु पितरम् अनुसृतवानहम्।।

  साक्षात्कारगणे अहं कञ्चन सुस्मेरवदनं शुभ्रवस्त्रधारिणं वयोवृद्धं दृष्टवान्। तस्य केशाः अपि श्वेताः आसन्। मम मनसि झटिति भीष्मपितामहस्य चित्रमेव आगतम्। सः अपृच्छत् – संस्कृतं जानासि किम्? “न” इति उत्तरिते सः पुनः उक्तवान् – “कापि चिन्ता न कार्या। सर्वं वयम् अध्यापयामः।” इति। एवं यद्यपि संस्कृतस्य अक्षरज्ञानं न आसीत् तथापि बी. ए. बिरुदे अहं प्रवेशितः जातः।।

      किञ्चित्कालानन्तरं मया ज्ञातं यत् सः एव संस्कृतक्षेत्रे बहुविधपुरस्कारैः अलंकृतः भारतराष्ट्रपतिना अपि पुरस्कृतः साहित्यव्याकरणादि सर्वविज्ञानशाखास्वपि भीष्मपितामहः इव विराजमानः पोट्टि सर् इति सर्वैः आदरेण गीयमानः च श्री. प्रोफ. आर् वासुदेवन् पोट्टिमहोदयः इति।

    बहूनां संस्कृतपण्डितानां वात्सल्यपूर्णसामीप्येन वर्धितस्य मम सौभाग्यं यत् ईश्वरेण अहं वासुदेवन् पोट्टिमहोदयस्य करकमलेषु समर्पितः अभवम् कालान्तरे। सेवानिवृत्तः पोट्टिमहोदयः स्वस्य ग्रन्थानां लेखनाय प्रकाशनाय च कोच्चीनगरस्थे सुकृतीन्द्र ओरियन्टल् रिसर्च् इन्स्टिट्यूट् इति केरलसर्वकलाशालायाः (विश्वविद्यालयः) अनुसन्धानकेन्द्रे गच्छति स्म। यादृच्छिकं वा देवहितं वा मम नियोगः वा न जाने, मम अनुसन्धानस्य प्रादेशिककेन्द्रमपि 'सुकृतीन्द्र' एव आसीत्। अनुसन्धाने साहाय्यार्थं प्रार्थिते सति सः महोदयः मन्दहासपूर्वकम् अङ्गीकृतवान्। सः मन्दहासः तस्य जन्मसिद्धा शैली आसीत्  इति तदानीम् अहं ज्ञातवान् यतो हि बी. ए. प्रवेशनस्य साक्षात्कारे यदा अहं तं मिलितवान् तदानीम् अपि सः एवमेव हसन्मुखः आसीत्। यद्यपि “पोट्टि सर्” इति मया श्रुतम् आसीत् बहुवारं मिलितवान् च आसम् तदापि तस्य महत्त्वमवगन्तुं सौभाग्यम् ईश्वरेण कल्पितम् आसीत् इति अधुना अहम् अवगच्छामि। तद्दिनादारभ्य गुरुकुले शिष्यः यथा गुरुं परिचरति अनुसरति च तथैव अहम् सर्वदा तेन सह आसम्।।

      पोट्टिमहोदयः यदा यदा सुकृतीन्द्रं गच्छति स्म तदा तदा अहमपि तम् अनुसरामि स्म। तत्र आवां सप्ताहं वा द्विसप्ताहं वा यावत् उषित्वा कार्यं संपादयावः स्म। दिने यावत् पोट्टिमहोदयः स्वस्य 'ग्रन्थानां ग्रन्थने' व्यापृतः भवति स्म। अहं च महाशयस्य निर्देशानुसारं विभिन्नान् ग्रन्थान् परिशील्य अनुसन्धानस्यपूर्तीकरणाय स्वीकर्तव्यान् अंशान् एकैकस्मिन् पत्रे लिखित्वा स्थापयामि स्म। (यदा “अजभक्षितमेतत्” इत्यस्य लोककथा यदा सः मां श्रावितवान् तदा अहम् अवगतवान् यत् सा एव प्रक्रिया महोदयः मम विषये अपि अनुसृतवान् इति)।।

    सामान्यतः सार्धनववादने पोट्टिमहोदयः शय्याम् अवलम्बते स्म। अहं च रात्रौ द्वादशवादनपर्यन्तम् अनुसन्धाने व्यापृतः भवामि स्म। तद्दिने यद्यत् संपादितं संगृहीतं वा तत्सर्वं रात्रौ गाढनिद्रायां विलीनस्य पोट्टिमहोदयस्य प्रकोष्ठे विद्यमानायाम् उत्पीठिकायां संस्थाप्य निद्रितः भवामि स्म अहम्। अग्रिमदिने प्रातः सामान्यतः ब्राह्ममुहूर्ते जाग्रियमाणः पोट्टिमहोदयः दैनन्दिनसंस्कारान् समाप्य मया समर्पितं सर्वमपि संशोध्य स्थापयति स्म। यदा अहं जागृतः भवामि स्म तदा महोदयः संशोधितानि पत्राणि प्रतिददाति स्म। मम महत् आश्चर्यम् आसीत् अयं महोदयः अस्मिन् वार्धक्ये अपि कथं कार्ये निरतः अस्ति इति शिष्यहिताय सदा उद्यतः च अस्ति इति।।

    यदा प्रतिनिवर्तितः भवामि तदा संशोधितानि पत्राणि सर्वाणि संङ्गणकमाध्यमेन उट्टङ्कितानि कृत्वा अग्रिमयात्रावेलायां महोदयस्य हस्ते समर्पयामि स्म। स च सर्वमपि पुनरपि निरीक्ष्य प्रतिददाति स्म। एकवर्षपर्यन्तम् अहं पोट्टिमहोदयं छायेव अनुसृतवान्।।

     मन्ये अहं, एतस्मात् अपि महत् सौभाग्यं प्राप्तं मया यत् तस्य व्याकरणप्रवचनानि श्रोतुम् अस्मिन् काले मदर्थम् अवसरः ईश्वरेण कल्पितः इति। यद्यपि व्याकरणसाहित्यादिषु विभिन्नशास्त्रशाखासु विशेषेण राजमानः आसीत् तथापि अयं महोदयः कदापि स्वपाण्डित्यस्य आधारेण वा स्वपाण्डित्यं प्रदर्शयितुं वा कक्षां न चालितवान् परन्तु स्वसम्मुखे उपस्थितानां छात्राणां ज्ञानस्य आधारेण एव स्वप्रवचनम् अकरोत्। अनेन प्रेरितः अद्य पर्यन्तं अहं “डा.” मनोजः बी भूत्वा मम छात्रान् न पाठितवान्। किन्तु छात्राणां  स्तरानुगुणमेव पाठनीयमिति पोट्टिमहोदयेन शिक्षितेन मार्गेण अद्य पर्यन्तं अहं संचरितवान् संचरिष्यामि च।।

   अपि च यदा यदा महोदयेन सह वृथा जल्पनार्थम् उपवेशितुं कालः लभ्यते, तस्मिन् समये अहं तेन सह  उपविश्य तस्य अनुभवान् शास्त्रकथाः च शृणोमि स्म। ततः प्रेरणां प्राप्य अहं बहुविधान् ग्रन्थान् परिशील्य शास्त्रसंबद्धाः नैकाः कथाः संगृहीतवान् पोट्टिमहोदयं समर्पितवान् च। महता सन्तोषेण महाशयः तस्य ग्रन्थस्य पुरोवचनं लिखित्वा दत्तवान्। किन्तु दौर्भाग्यं मम इदम् अस्ति यत् अद्यावधि सः ग्रन्थः न प्रकाशितः इति।।

     यदा कदापि यं कमपि सन्देहं पृच्छामः स्म तदा जन्मसिद्धशैल्या हसन्मुखः सन् सन्देहनिवृत्तिं कारयन् सः निश्चयेन शिष्यहृदयेषु कालातीतः सन् स्थास्यति इत्यत्र नास्ति सन्देहलेशः। मम जीवने सर्वविधाभिवृद्धिः सौभाग्यानि च पोट्टिमहोदयस्य अनुग्रहः अस्ति इति अहं दृढं विश्वसिमि। "पुरा कवीनां गणनाप्रसङ्गे ...." इति श्लोकः तस्य महोदयस्य कृते परिवर्तनं कृत्वा लेखितुं शक्यते। तद्यथा –

“पुरा गुरूणां गणनाप्रसङ्गे

कनिष्ठिकाधिष्ठितवासुदेवः।

अद्यापि तत्तुल्यगुरोरभावात्

अनामिका सार्धवती बभूव।।”    

श्रीयुतस्य पोट्टिवर्यस्य पादकमलेषु  कोटि-कोटि-प्रणामाः॥