OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, May 11, 2022

 आन्ध्रातीरे सुवर्णवर्णरथः। असानी चक्रवाते तीरं प्राप्तः इति सन्देहः। 

श्रीकाकुलम्> असानी चक्रवातहेतुना जलप्रवाहैराप्लुत्य सुवर्णवर्णयुक्तः रथः आन्ध्रातीरं प्राप्तः। श्रीकाकुलं जिल्लायां सुन्नाप्पल्लि नौकाश्रयस्य समीपे एव रथः तीरं प्राप्तः। कस्यापि दक्षिणपूर्वराष्ट्रस्य एव एषः रथः इति इन्ट्या टुडे नाम माध्यमेन प्रतिवेदितम्। प्रदेशवासिभिः धीवरैः एव प्रथमं रथः सन्दृष्टः। तैः रज्जुमुपयुज्य रथः तीरमानीतः। घटनायाः अस्याः दृश्यानि सामूहिकमाध्यमेषु प्रचलितानि सन्ति। दृश्ये तीरस्थाः जनाः रथं तीरेषु आनयन्तं दृश्यं सुव्यक्तम् अस्ति। घटनामधिकृत्य भारतीय-बौद्धिकसंघाय विवरणानि आवेदितानि इति नौपाडा उपनिरीक्षकेण प्रतिवेदितम्।