OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 15, 2022

उत्तरराज्येषु अत्यन्तं तापतरङ्गः; ४ जनपदेषु रक्तवर्ण पूर्वसूचना।

>उत्तरराज्येषु तापतरङ्गः सर्वाधिकं तीव्रः भवति । राजस्थानस्य चतुर्षु जनपदेषु अद्य रक्तवर्ण पूर्वसूचना घोषिषा अस्ति। दिल्ली एवं पंजाब् राज्ययोः 'ओरञ्च् अलर्ट्'। अधुना दिल्लीनगरं १९५१ तमसंवत्सरात् परं सर्वाधिकम् उष्णेन ग्रीष्मकालम् अनुभूयते। उत्तरराज्यानि तापतरङ्गेन स्वेदयन्ति। दिल्ली-नगरस्य सफदरजङ्ग-नगरे अद्य केन्द्रीयवातावरणविभागेन ४५ डिग्री सेल्सियस-तापस्य पूर्वानुमानं कृतम् अस्ति । अस्मिन् ग्रीष्मकाले देशस्य राजधान्याम् एतत् पञ्चमं तापतरङ्गम् अस्ति। राजस्थानस्य २३ नगरेषु अधिकतमं तापमानं ४४ डिग्रीतः उपरि अभवत्।

 श्रीगंगानगर, हनुमानगढ़, बीकानेर, चूरु जनपदेषु वीथी जाग्रता घोषिता अस्ति। जैसलमेर् सहित 12 जनपदेषु 'ओरेंज् अलर्ट्' घोषिता। गुरुग्रामं हरियाणायाः सर्वोच्चम् उष्णस्थानम् भवति। जम्मू-कश्मीरे अपि तापमानं वर्धते। विदर्भा, महाराष्ट्रं, झारखण्डं, पंजाब्, उत्तरप्रदेशम् एवं मध्यप्रदेशे च दुर्घटनायाः पूर्वसूचना उद्घोषिता अस्ति।