OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, May 24, 2022

 'क्वाड्' शिखरसम्मेलनम् अद्य। 

नवदिल्ली>  Quadrilateral Security Dialogue (QUAD) इति कृतनामधेयस्य भारत-अमेरिक्का-आस्त्रेलिया-जापानराष्ट्राणां संघस्य तृतीयं शिखरसम्मेलनम् अद्य टोकियो नगरे समपद्यते। रूस्-युक्रेनयुद्धः, भारत-पसफिक् क्षेत्रे जाताः समस्याः, कोविड् व्यापनं प्रतिरोधश्च इत्यादयः विषयाः सम्मेलने चर्चाविधेयाः भविष्यन्ति। 

  शिखरसम्मेलनमध्ये भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अमेरिक्कायाः राष्ट्रपतिः जो बैडनः, जापानीयप्रधानमन्त्री फुमियो किषिदः, आस्ट्रेलियायाः नूतनः प्रधानमन्त्री आन्टणी अल्बनीसः इत्येभिः सह उभयराष्ट्र चर्चां करिष्यति।