OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 15, 2022

 सर्वकारवृत्तान्ताः सामान्यजनेभ्योSपि - राष्ट्रियतत्त्वविशकलनवेदिका  उद्घाटिता।

नवदिल्ली> प्रशासनस्य विज्ञापनानि वृत्तान्तानि च इतःपरं जनकीयं कर्तुं नीतिआयोगेन सज्जीकृता राष्ट्रियतत्त्वविशकलनवेदिका 'एन् डाप्' नामिका सामान्यजनेभ्यः समर्पिता। विज्ञानभवने सम्पन्ने कार्यक्रमे नीति आयोगस्य उपाध्यक्षः सुमन् बरिवर्यः उद्घाटनमकरोत्। सर्वकारस्य सर्वेषां परियोजनानां वृत्तान्तान्  तासां धनविनियोगेन सह सर्वेभ्यः लब्धुं अनया सुविधया शक्यते। किञ्च परियोजनानां विशकलनाय तुलनात्मकाध्ययनाय च सुविधेयं प्रयोजकीभविष्यतीति सुमन् बरिवर्येण उक्तम्। 

    नीति आयोगस्य वरिष्ठाधिकारिणी अन्ना रोय् महाभागायाः नेतृत्वे आसीत् वेदिकेयं परिकल्पिता। ndap.niti.gov.in इति अन्तर्जालपटलेन वेदिकां प्रयोजकीकर्तुं शक्यते।