OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, January 7, 2024

 मोदीविरुद्धः उपहासः, मालद्वीपसर्वकारेण त्रयः मन्त्रिणः सेवनात् स्थगिताः।

  भारतस्य प्रधानमन्त्रिणः मोदिनः लक्षद्वीपयात्रायाः उपहासं कृत्वा सामाजिकमाध्यमेषु प्रसारितेषु अभिमतेषु   भारतेन विप्रतिपत्तिः प्रकाशिता। अनन्तरं मालद्वीपसर्वकारेण दोषकारिणः त्रयः मन्त्रिणः सेवनात् स्थगिताः। मालद्वीपदेशेन प्रकाशिते विज्ञप्तौ उक्तं यत् मन्त्रिणां मतं सर्वकारस्य मतं न। मोदिनः  लक्षद्वीपयात्रायाः अनन्तरं मालदीवदेशस्य युवजनकार्यमन्त्रिणी मरियं शिवा निन्दनीयां टिप्पणीं कृतवती। राज्यमन्त्री मलशा, हसनसिहान च एक्स् इति ज्ञाते सामाजिकमाध्यममञ्चे   अपि मानहानिकरं टिप्पणीं कृतवन्तौ। एताः टिप्पण्यः सामाजिकमाध्यम द्वारा महान्तं विवादम् अजनयत्।  मालदीवस्य पूर्वप्रधानमन्त्री मोहम्मदनशीदः एतान् विरुद्ध्य अग्रे आगतः। भारतविरुद्धः सन्दर्भः सर्वकारीयनीतिः नास्ति इति अपि स्पष्टीकर्तुम् आग्रहः कृतः।