OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, January 24, 2024

 अयोध्यायां बालकरामस्य प्राणप्रतिष्ठा सम्पन्ना। 

नरेन्द्रमोदी मुख्ययजमानत्वेन भागं गृहीतवान्। 

अयोध्या> आमोदः उत्साहः च समत्वेन पूरिते वातावरणे राममन्दिरस्थः बालकरामः [रांलल्ला] भक्तसहस्रेभ्यः नेत्रोन्मीलनमकरोत्। ह्यः मध्याह्ने १२. ३० वादने केवलं  ८४ त्रुटिं यावत् दीर्घिते मुहूर्ते बालकमूर्तेः प्राणप्रतिष्ठा सम्पन्ना। काशिमन्दिरस्य पुरोहितः लक्ष्मीकान्त मिश्रः मुख्यकार्मिकः अभवत्। प्रधानमन्त्री नरेन्द्रमोदी मुख्ययजमानः भूत्वा आरतिं कृतवान्। 

  राष्ट्रस्य विविधमण्डलेषु विराजमानाः अष्टसहस्रं जनाः सविशेषामन्त्रणेन प्रतिष्ठाकार्यक्रमे दृक्साक्षिभूताः आसन्। नूतनं राममन्दिरं शान्तेः प्रेमस्य च सन्देशवाहकं भवेदिति आमन्त्रितान् विशिष्टजनान् अभिसम्बोधयन् मोदिवर्यः अवदत्। 

  भक्तानां कृते अद्य आरभ्य दर्शनव्यवस्था कल्पिता।